पृष्ठम्:अथर्ववेदसंहिता-भागः २.pdf/४६६

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

[अ० ७. सू° ७६.]३९३ सप्तमं काण्डम् । ४५९ अनया उच्यते । आसाम अपचितां मध्ये प्रथमाम मुख्यां दोषप्रकर्षेण उद्भूतां दुश्चिकित्सामपि गण्डमालां विध्यामि । मुनेर्देवस्य मूलेनेति सं- बन्धः अस्या अपि ऋचः शरेण वेधने विनियुक्तत्वात् । उत अपि च मध्यमाम् दोषसाम्येन उद्भूतां ना॑तिदुःसाधाम् । सुसाधाम् इत्यर्थः । ताहशीम अपचितं विध्यामि शरेण । तथा इदम् इदानीम् आसाम् अपचितां मध्ये जघन्याम् अल्पदोषसमुद्भूताम् ईषत्प्रयत्नेन निर्हरणीया गण्डमालाम् आ च्छिनझि सर्वतो विदारयामि । हुछिदिर् द्वैधी- करणे । रुधादिः छु । छेदने दृष्टान्त: स्तुकाम इवेति । यथा ऊ- र्णास्तुका अनायासेन च्छिद्यते तथेति ॥ तृतीया ॥ वा॒ष्णा॒ वच॑सा॒ वि त॑ इ॒र्ष्याम॑मीमदम् । 66 अथो॒ यो म॑न्युष्टि॑ पते॒ तमु॑ ते शमयामसि ॥ ३ ॥ वा॒ष्ट्रेण॑ । अ॒हम् । वच॑सा । वि । ते॒ । ईर्ष्याम् । अ॒मीमदम् । अथो॒ इति॑ । यः । म॒न्युः । ते॒ । पते॒ । तम् । ऊ॒ इति॑ । ते॒ । श॒म॒याम॒सि॒ ॥ ३ ॥ हे ईर्ष्यात पुरुष ते तव ईर्ष्याम क्रोधं स्त्रीविषये क्रियमाणं त्वाष्ट्रे- ण । अवयवविभागकर्ता त्वष्टा | श्रूयते हि । 'यावच्छो वै रेतसः सि तस्य त्वष्टा रूपाणि विकरोति तावच्छो वै तत् प्रजायते” इति [तै ० सं० १. ५.९.२ ] । तत्संबन्धि वाष्टम् । तेन वचसा वाक्येन मन्त्रेण अ- हं प्रयोक्ता स्त्री वा व्यमीमदम विगतमदां करोमि । निवारयामीत्यर्थः । ईर्ष्याया मदो नाम उद्रेक: । ईर्ष्याम उद्रेकरहितां करोमीति यावत् । न केवलम् ईर्ष्याद्रेकशमनम् । अथो अपि तु हे पते वल्लभ ते तव यो मन्युः क्रोध: मडिषयः तव तं क्रोधं शमयामसि शमयामः । उ इत्यवधारणे । अत्रापि वाण वचसा इति संबध्यते । यथा लोके दुर्वृत्ताः पुत्राः पितुराज्ञ दुर्व्यसनाद् निवर्तन्ते एवं पुरुषगतेर्याविनाश- ने सर्वोत्पादकस्य त्वष्टुरुक्ति: करणवेनोक्ता ॥ १ A म॒न्युट्टै orted to म॒न्युस्ते॑ R म॒न्यु॒स्ते॑ 1S' नातिदुःसाधात्मनि सुसाधा.