पृष्ठम्:अथर्ववेदसंहिता-भागः २.pdf/४६७

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अथर्वसंहिताभाष्ये चतुर्थीीं ॥ व्र॒तेन॒ त्वं व॑तपते॒ सम॑क्तो वि॒श्वाहा॑ सु॒मना॑ दीदि॑िह॒ह ।

तं त्वा॑ व॒यं जा॑तवेद॒ समि॑द्धं प्र॒जाव॑न्त॒ उप॑ सदेम॒ सर्वे ॥ ४ ॥ व्र॒तेन॑ । त्वम॑ । व्र॒त॒ऽप॒ते॒ । सम्ऽअ॑क्त । वि॒श्वाहा॑ । सु॒ऽमना॑ः । दु॑दि॒ह । इ॒ह । तम् । त्वा॒ । व॒यम् । जा॒त॒ऽवे॒दुः । सम्ऽइ॑द्धम् । प्र॒जाऽव॑न्तः । उप॑ । स॒दे॒- म॒ । सर्वे॑ ॥ ४ ॥ ४६० हे व्रतपते व्रतस्य कर्मणः पालयितः । कर्मफलमदातृत्वाद् व्रतपतित्वम् अग्नेः । “त्वं व्रतानां व्रतपतिरसि” इति [तै० सं० १.२.११.१] मन्त्रा- न्तरम् । व्रतेन अनुष्ठीयमानेन दर्शपूर्णमासादिकर्मणा समक्त: संस्कृत: संभावितः । सम्यग् इष्ट इत्यर्थः । ॐ अञ्जेः कर्मणि निष्ठा । ए- वंविधस्त्वं विश्वाहा विश्वेषु अहस्सु सर्वदा सुमना: शोभनमनस्कः अस्म- द्विषये अनुग्रहबुद्धियुक्तः सन् इह अस्मिन् अस्मदीये गृहे दीदिहि । देतिर्दीप्तिकर्मेति यास्क:::: दी- 1 दीप्यस्व । हे जातवेदः जातानां भू- तानां वेदितः जातैर्विद्यमान ज्ञायमान वा जातप्रज्ञ जानधन वा हे अ झे समिद्धम् सम्यग्दीप्नं तं पूर्वोक्तगुणं त्वा त्वां प्रजावन्तः प्रजायन्त इति प्रजाः पुत्रपौत्रादिसमेताः सर्वे वयम् उप सदेम उपसद्यास्म तव परि- चरणं क्रियास्म । सदे: “लिड्याशिष्यङ्” इति अङ् प्रत्ययः ॥ पञ्चमी ॥ प्र॒जाव॑तीः सू॒यव॑से रु॒शन्तीः शुद्धा अपः सु॑पा॒ाणे पिव॑न्तीः । मा व॑स्ते॒न ई॑शत॒ माघश॑स॒ परि॑ वो रु॒द्रस्य॑ ह॒तिवृ॑णक्तु ॥ १ ॥ प्र॒जाऽव॑तीः । सु॒ऽयव॑से । रु॒शन्त शुद्धा । अ॒पः । सु॒ऽप्र॒पा॒ाने । पिब॑न्तीः । मा । वः॒ः । स्ते॒नः । ईशत॒ | मा । अ॒घशंसः । परि॑ । वः॒ । रु॒द॒स्य॑ । ह॒तिः । वृणक्तु ॥ १ ॥ प्रजावतीरित्येषा पञ्चमी व्याख्याता [४.२१.७] ॥ ₹ BBKKRSV ChCr त्वां. We willh APP J