पृष्ठम्:अथर्ववेदसंहिता-भागः २.pdf/४७२

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

[अ० ७. सू° ४१.]३९६ सप्तमं काण्डम् । दशमी | पक्षी जायान्य॑ः पति॒ स आ वि॑शति॒ पूरु॑षम् । तदक्षतस्य भेष॒जमु॒भयो॒ोः सुक्ष॑तस्य च ॥ ४ ॥ प॒क्षी । जा॒यान्य॑ । पत॒ति॒ । सः । आ । वि॒श॒ति॒ । पुरु॑षम् । तत् । अक्षितस्य । भेषजम् । उ॒भयो॑ः । सु॒ऽक्ष॑तस्य । च॒ ॥ ४ ॥ ४६५ जायान्य: क्षयरोग: पक्षी पक्षवान् पतत्री भूत्वा पतति सर्वत्र चरति । स रोग: पूरुषम् पुरुषम् आ विशति सर्वतः प्रविशति । पुरुषस्य कृत्स्नं शरीरं व्याप्नोतीत्यर्थः । अक्षितस्य । अक्षि निवासगन्योः । यद्वा । अ- रीरे चिरकालावस्थानरहितस्य । सुक्षितस्य चिरकालम् अवस्थितस्य । Y क्षणु हिंसायाम् इति धातुः इकारोपजनश्छान्दसः ४ । क्षितस्य अहिंसकस्य शरीरम् अशोषयतः सुक्षितस्य शरीरगतसर्वधातून सुष्ठु निःशेषं शोषयतः । चशब्दः समुच्चये । उभयो: अ- क्षितसुक्षितयोः क्षयरोगयोः तत् प्रसिद्धं मन्त्राभिमन्त्रितं वीणातन्त्रीखण्डा- दिरूपं भेषजम् निवर्तनौषधं भवति ॥ [ इति ] सप्तमेनुवाके प्रथमं सूक्तम् ॥ ८८ 'विद्म वै ते” इत्यस्या ऋचो राजयक्ष्मभैषज्ये ‘य: कीकसा: ” [७. to ] इति व्यचेन सह उक्तो विनियोगः ॥ 66 सोमयागे माध्यन्दिनसक्ने " धृषत् पिब" इत्यनया द्रोणकलशस्थं सो- मं ब्रह्मा अनुमन्त्रयेत । 'द्रोणकलशस्थम् अनुमन्त्रयते धृषत् पिबेति माध्यन्दिने” इति हि वैतानं सूत्रम् [ वै०३.६] ॥ अभिचारकर्मणि " सांतपनाः इति तृचेन विद्युद्धतवृक्षसमिध आद- 66 ध्यात् ॥ तथा चातुर्मास्येषु साकमेधपर्वणि मध्यन्दिने काले सांतपनमरुद्यागं "सांतपना : ” इति ब्रह्मः अनुमन्त्रयेत । तद् उक्तं वैताने । मध्य- न्दिने सांतपनानां मरुतां सातपनाः" इति [ वै०२, ५ ] ॥ 1S' अक्षतस्य, though its text las: अक्षितस्य, and though स.क्षतस्य is what it reads at the beginning of the commentary.