पृष्ठम्:अथर्ववेदसंहिता-भागः २.pdf/४७३

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अथर्वसंहिताभाष्ये सर्वव्याधिभैषज्यकर्मणि 66 “वि ते मुखामि” इत्यनया उदकघटं संपात्य अभिमन्त्र्य सूत्रोक्तमकारेण व्याधिनम् आसावयेद् अवसिञ्चेद् वा । सू- त्रितं हि । “सिनीवालि [७.४६] वि ते मुञ्चामि [ ७.४३] शुम्भनी [७.११७] इति मौजैः पर्वसु बड्डा पिञ्जुलीभिरामावयत्यवसिञ्चति” इ- ति [को० ४.८ ] ॥ पूर्ण यमानयोक्कां पत्नीम अनया ब्रह्मा अनुम- न्त्रयेत । तद् उक्तं वैताने । “वि ते मुञ्चामि [ ७.८३] अहं वि ष्या- “मि [१४.१. ५७] प्र त्वा मुञ्चामि [१४.१.१९] इति पत्नीं योकेण वि- "मुच्यमानाम् अनुमन्त्रयते” इति [वै॰ १. ४] ॥ दर्शपूर्णमासयो: “अस्मै क्षत्राणि " इत्यनया हविरासादनानन्तरम् इ- ध्मम् उपसमाध्यात् । “अग्निर्भूम्याम् [१२, १.१९] इति तिसृभिरुपस- मादधाति अस्मै क्षत्राणि [ ७.८३] एतम् इष्मम् ” [१०. ६.३५] इति [ कौ०१.२] सूत्रात् ॥ 'यत् ते देवा अकृण्वन्" इति चतसृभिः स्वाभिलषितफलकामः अ- मावास्यां यजेत उपतिष्ठेत वा । 'बृहस्पतिर्नः [ ७. ५३ ] यत् ते देवा अकृण्वन् [ ७. ६४] पूर्णा पश्चात् ”[७.७५] इति हि कौशिकं सूत्रम् [ कौ॰७.१०] ॥ 66 तथा दर्शयागे पार्वणहोमं " यत् ते देवा अकृण्वन्" इत्यनया कु- र्यात् । “यत् ते देवा अकृण्वन् भागधेयम् इत्यमावास्यायाम्' इति कौशिकसूत्रात [कौ० १.५] ॥ 66 तथा श्रदर्शयागे " यत् ते देवा अकृण्वन्” इति कुहूदेवतां परि- गृह्णीयात् । कुहूं देवीं यत् ते देवा अकृण्वन् भागधेयम् इत्यमावा- स्यायाम्” इति वैतानं सूत्रम् [वै॰१.१] ॥ तत्र प्रथमा ॥ वि॒द्म वै ते जायान्य जानं॒ यतो॑ जायान्य॒ जाय॑से । क॒थं ह॒ तत्र॒ त्वं ह॑नो॒ यस्य॑ कृ॒ण्मो ह॒विगृ॒हे ॥ १ ॥ १ विद्या, 66