पृष्ठम्:अथर्ववेदसंहिता-भागः २.pdf/४७४

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सप्तमं काण्डम् । वि॒द्म । वै । ते॒ । जा॒या॒ान्य॒ । जान॑म् । यत॑ । जा॑य॒ान्य॒ । जाय॑से । कथम् । ह॒ । तत्र॑ । त्वम् । ह॒न॑ः । यस्य॑ । कृ॒ण्मः । ह॒विः । गृहे ॥ १ ॥ [अ॰ ७. सू° ४१.] ३९६ ४६७ हं जायान्य जायाभ्य आगत राजयक्ष्माख्य रोग तं तव जानम् जन्म उत्पत्तिनिदानं वा विद्म वै जानीमः खलु | वैशब्दः श्रुत्यन्तरप्रसिद्धिद्यो- तनार्थ: । “यज्जायाभ्योविन्दत् तज्जायेन्यस्य ” इति तैत्तिरीयश्रुतिः [तै ० सं० २.३.५.२] उदाहृता । हे जायान्य जायासंबन्धाद् आगत रोग यत: यस्मान्निदानात् जायसे उत्पद्यसे तन्निदानं जानीम इति संबन्धः । एवं तवोत्पत्तिं जानाना वयं यस्य यजमानस्य गृहे हवि: रोगनिहरणक्ष- मेन्द्रादिदेवतासंबन्धि आज्यादिरूपं कृण्मः कुर्मः देवतोद्देशेन तदुचितं ह- विः प्रक्षिपामंः तत्र तस्मिन् यजमाने | विषयसप्तमी X । द्विषये हे क्षयरोग त्वं कथं ह हनः केन प्रकारेण हन्याः । यद्रोगनि- र्हरणार्थं यत्र देवता इज्यते तत्र स रोगो न बाधत इत्यर्थः । ॐ हन इति । हन्तेः पञ्चमलकारे अडागमः । कृण्म इति । “लोपश्चास्यान्य- तरस्यां स्वो: " इति उप्रत्ययलोपः टु ॥ द्वितीया ॥ घृ॒षत् पि॑िब क॒लशे॒ सोम॑मिन्द्र वृत्र॒हा शूर सम॒रे वसू॑नाम् । माध्य॑न्दिने॒ सव॑न॒ आ वृ॑षस्व रयि॒ष्ठानो॑ र॒यिम॒स्मासु॑ धेहि ॥ २ ॥ घृ॒षत् । पि॒व॒ । क॒लशे । सोम॑म् । इ॒न्द्र॒ । वृ॒त्र॒ऽहा । शू॒र॒ । स॒मऽअ॒रे । व- सू॑नाम् । माध्य॑न्दिने । सव॑ने । आ । वृष॒स्व॒ । र॒यि॒ऽस्थान॑ः । र॒यिम् । अ॒स्मासु॑ । धेहि॒ि ॥ २ ॥ हे इन्द्र धृषत धृष्ट: धर्षको वा शत्रूणाम् । Xजिघृषा प्रागल्भ्ये । शतरि व्यत्ययेन शः । कलशे द्रोणकलशाख्ये स्थितं सोमं पिव । किंनिमित्तम् । हे शूर विक्रान्त वृत्रहा वृत्रं हतवान् त्वं वसूनाम् ध- १ PJ CP हर्न: 07e witle P 1S' प्रक्षिपामतः for प्रक्षिपामः