पृष्ठम्:अथर्ववेदसंहिता-भागः २.pdf/४७५

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

४६ अथर्वसंहिताभाष्ये सं- नाना समरे संगमे निमित्ते । अस्मान् धनं संयोजयितुं पिबेत्यर्थः । पूर्वाद् अर्ते: “ऋदोरप्” । थाथ" इत्यादिस्वरेण अन्तोदात्तः । सो- मपानस्य कालम् आह । माध्यन्दिने मध्यन्दिनसंबन्धिनि सवने । सूयते अभिषूयते सोमः अत्रेति सवनः कालः । तत्र आ वृषस्व सर्वतः सि- च । जठरे सोमम् इति शेषः । यद्वा । & आवृषतिर्भक्षणकर्मा इति भक्ष च । सोमम् इति शेषः । ततः रथिस्थानः ति अधिकरणे ल्युट् प्रत्य- धननिवासस्थानभूतः स त्वं रयिम् धनम् अस्मासु धेहि यास्कः ४ । छन्ति अस्मिन् धनानि इति स्थान: । यः । धारय ॥ तृतीया ॥ सांत॑पना इ॒दं ह॒विर्मरु॑त॒स्तज्जु॑जुष्टन । अ॒स्माकोती रि॑िशादसः ॥ १ ॥ 1 साम्ऽत॑पनाः । इ॒दम् । ह॒विः | मरु॑तः । तत् | जुजुष्टन । अ॒स्माक॑ । ऊ॒ती | रशाद॒सः ॥ १ ॥ हे सांतपना: संतापकारी संतपन: सूर्य: तत्संबन्धिनः । मध्यन्दिने हि सूर्य: संतपति | संतपनस्य इमे इति "तस्येदम्" इति अण् । “आमन्त्रितस्य च " इति षाष्टिकम् आधुदात्तत्वम् । यद्वा संतपनं सं- तापः । तस्येमे इति पूर्ववद् अण्ड । उभयत्रापि मध्यन्दिनकाले यष्टव्या इत्यर्थः । हे मरुतः इदं हविः । युप्मभ्यं कल्पितम् इति शे- षः । हे मरुतः तत् हवि: जुजुष्टन सेवध्वम् । ४ जुषतेर्व्यत्ययेन अस्माक अस्माकम् ऊती । " हु“ सुपां सुलुक " इति चतुर्थ्या: पूर्वसवर्णदीर्घः । ऊतये अस्मद्रशणार्थम् हे रिशादस: रि- शन्ति हिंसन्तीति रिशाः । तेषाम उपक्षपयितारः । Xदस्यते: अ- न्तर्णीतण्यर्थात् किप्छ । यद्वा रिशानाम अत्तारः । भक्षणे । इत्यस्माद् असुन् । दस्यतेरत्तेर्वा रूपम् इति अनवग्रहः । अपादादिवाद् आष्टमिक सर्वानुदात्तत्वम् रक्षितुं शत्रूणां बाधका यूयं हविः सेवध्वम् इति संबन्धः अद अनवधारणाद् । अस्मान्