पृष्ठम्:अथर्ववेदसंहिता-भागः २.pdf/४७७

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

४७० अथर्वसंहिताभाष्ये स्वर्काः । . पूर्वाद् वत्सरात खप्रत्ययः । ४ अर्कशब्दं यास्को Thi बहुधा निरुवाच । अर्को मन्त्रो भवति यद् अनेनार्चन्ति अर्को दे- वो भवति यद् एनम् अर्चन्ति अर्कम् अन्नं भवति इत्यादि [ नि० ५. ४] । सुमन्त्राः मन्त्रैः सम्यक् स्तूयमाना इत्यर्थः । सूर्यरूपदे- वसंवन्धिनो वा अन्नप्रदत्वेन शोभनान्ना वा । उरुक्षयाः । क्षयशब्दो नि- वासवाची । उरुर्विस्तीर्णः क्षयः अन्तरिक्षरूपो निवासो येषां ते । अ- न्तरिक्षसंचारिण इत्यर्थः । सगणाः । "सप्तगणा वै मरुतः” इति [ तै० सं० २.२.५.७] श्रुतेः स्वीयस्वीयसंघयुक्ताः । मानुषासः वृष्टिनिमित्त- वेन मनुष्य हितकारिणः । सांतपना: शत्रूणां संतापकारिणः । मत्सराः माद्यन्तः मादयिष्णवः सर्वस्य संतोषकरणशीलाः । ते एवंगुणविशिष्टा मरुतः अस्मत् अस्मत्तः सकाशाद् एनस: पापकारिण: पाशान् बाध- कान् प्र मुञ्चन्तु प्रमोचयन्तु ॥ षष्ठी ॥ विते॑ मुञ्चामि रश॒नां वि योक्तं॒ वि नि॒योज॑नम् । इ॒हैव त्वम॒ज॑स्र एध्यग्ने ॥ १ ॥ वि । ते । मुञ्चामि । र॒श॒नाम् । वि । योक॑म् । वि । नि॒ऽयोज॑नम् । इ॒ह । ए॒व । त्वम् । अज॑स्रः । ए॒धि॒ । अग्ने॒ ॥ १॥ हे अग्ने ते तव त्वंत्कर्तृकां रशनाम व्यापिकां रज्जुम् । ४ अशेरश च [ उ०२.७५] इति युच् प्रत्ययः । त्वत्कर्तृकां रुग्णविषयां क- क्ष्यावस्थितां कण्ठबन्धनसाधनभूतां वा बाधिकां रज्जुं वि मुञ्चामि विमो- चयामि प्रयोक्ता अहम् । तथा योक्तम् योजनोपयुक्तं रज्जुविशेषं मध्यप्रदे- शबन्धनसाधनम् । वि मुञ्चामीति क्रियानुषङ्गः । तथा नियोजनम् नित- रां योजनसाधनं नीचीनं वा बन्धनसाधनं सर्वावयवबन्धकं रज्जुविशेषम् । वि मुजामीत्यनुषङ्गः । सर्वत्र क्रियानुषङ्गं द्योतयितुं वीत्युपसर्गश्रुतिः । अतः बन्धनमोचनातू हे अग्ने लम इहैव अस्मिन्नेव रोगातें । षयसप्तमी । 1S' अंतरिक्ष. 25' तत्कर्तृ. छवि- रुग्णविषये अजस्रः । जसु हिंसायाम् इति