पृष्ठम्:अथर्ववेदसंहिता-भागः २.pdf/४७९

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

४७२ अथर्वसंहिताभाष्ये दृशम् इमं यजमानं देवतासु अग्नीन्द्रादिषु म वोचः प्रब्रूहि । अ- सौ यजमानो हविषा देवता यजत इति तस्यै तस्यै यष्टव्यदेवतायै कथ- येत्यर्थः ॥ अष्टमी ॥ यत् ते॑ दे॒वा अकृण्वनं भागधेयममा॑वास्ये संवस॑न्तो महि॒त्वा । तेना॑ नो॑नो॒ य॒ज्ञं पि॑पृह विश्ववारे र॒यिं नो॑ो धेहि सुभगे सु॒वीर॑म् ॥ १ ॥ यत् । ते॒ । दे॒वाः । अकृ॑ण्वन् । भागऽधेय॑म् । अमा॑ऽवास्ये । सम्ऽवस॑न्तः । महित्वा । तेन॑ । नः॒ । य॒ज्ञम् । पि॒पृ॑हि॒ | वि॒श्व॒ऽवारे । र॒यिम् । नः॒ । धे॒हि॒ । सु॒ऽभ- नो॒ । सु॒ऽवीर॑म् ॥ १ ॥ अमा- त- अमा सह वसतः सूर्यचन्द्रावस्याम् इति अमावास्या | वस्यदन्यतरस्याम्” इति पक्षे ण्यत् प्रत्ययः । णित्त्वाद् उपधावृद्धिः । स्याः संबुद्धि: । हे अमावास्ये ते तव महित्वा महत्त्वेन । तीयाया आकारादेशः । यद्वा महित्वा महत्त्वे । नृ- सप्तम्या आकार: 1 कर्मकालव्याप्तिपर्यन्तं संवसन्तः सम्यग्वसन्तः । हविर- पेक्षया तिष्ठन्तो देवा: अग्नीन्द्रसोमादयः भागधेयम हविषो भागम अ- कृण्वन् अकुर्वन् । स्वीकृतवन्त इति यत् । “यत् ते देवा अदधुर्भागधे- यम्” इति तैत्तिरीये श्रूयते [तै० सं० ३. ५.१.१] । यहा हे अमावास्ये ते तुभ्यं यद् भागधेयं हविषो भागम् अमावास्यायां यष्टव्यलेन संवसन्तो देवा अकृण्वन् अकुर्वन् प्रायच्छन् । दर्शे अमावास्याया अपि हविषो भागोस्ति । भागधेयम् इति । " रूपनामभागेभ्यो” धेयप्रत्य- 66 यः । तेन हविर्भागस्वीकरणेन नः अस्मदीयं यज्ञं पिपृहि पूरय साङ्गं कुरु हे विश्ववारे विश्वैः सर्वैर्वरणीये । किं च हे सुभगे शोभन - भाग्ययुक्ते अमावास्ये नः अस्मभ्यं सुवीरम् । वीराः कर्मणि कुशलाः पुत्रादयः । शोभनपुत्रादियुक्तं रयिम् धनं धेहि प्रयच्छ ॥ १ BK V अकृ॑ण्वद्भा. We with AD KR SCs.