पृष्ठम्:अथर्ववेदसंहिता-भागः २.pdf/४८०

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सप्तमं काण्डम् । नवमी ॥ अ॒हमे॒वास्म्य॑मावा॒स्या॒ मामा व॑सन्ति सु॒कृतो॒ मयो॒ीमे । मयि॑ दे॒वा उभये साध्याश्वेन्द्र॑ज्येष्ठ॒ा सम॑गच्छन्त॒ सर्वे ॥ २ ॥ [अ० ७. सू°४४.]३९९ ४७३ अ॒हम् । ए॒व । अ॒स्मि॒ । अमावास्या | माम् । आ । व॒स॒न्ति॒ । सु॒ऽकृत॑ः । मयि॑ । इ॒मे । मयि॑ । दे॒वाः । उ॒भये॑ । सा॒ाध्याः । च॒ । इन्द्र॑ऽज्येष्ठाः । सम् । अगच्छन् । सर्वे ॥ २ ॥ अत्र देवतावासस्थानभूतत्वेन अमावास्याशब्दनिप्पत्तिरिति देवता स्वय- मेव स्वनाम निर्वक्ति । अहमेव अमावास्याभिमानिनी देवता अमावा- स्या अस्मि । न केवलं शब्दतः अपि तु अर्थतोपि एतन्नामिका भवा- मि । तद् दर्शयति पादत्रयेण | सुकृतः सुकर्माणो देवा मां मयि आ वसन्ति निवसन्ति यष्टव्यत्वेन अवतिष्ठन्ते । "उपान्वध्याङ्कसः " इ- ति आङ्पूर्ववसिप्रयोगे माम इत्यस्य कर्मता । आ मा वसन्ति देवा इ- ति अमावास्याशब्दनिरुक्ति: । आङ्गसत्योर्मध्ये मा इति अस्मदो द्विती- यैकवचनस्य प्रयोगः । आपसर्गस्य स्वत्वम् । इति अमावास्याशब्द- निष्पत्तिः प्रदर्शिता । प्रत्ययस्तु पूर्वमेव उक्तः त्रु । माम् इति डि- तीयार्थमेव विवृणोति मयीमे इति । इमे देवाः मयि निवसन्ति इ- ति आवासपदस्य अर्थकथनद्वारेणापि अमावास्याशब्दो निरुच्यते । सा- ध्या: । चशब्दः अनुक्तसमुच्चयार्थः । सिद्धाश्च साध्यसिद्धनामका उभये द्विमकारा इन्द्रज्येष्ठाः इन्द्रप्रमुखाः सर्वे देवाः मयि समगच्छन्त संगच्छ- न्ते यष्टव्यत्वेन मिलिता भवन्ति । एतद् उक्तं भवति । माम् आ व सन्ति देवा मयि निवसन्ति यष्टव्यत्वेन मयि संगच्छन्ते इति अन्वर्थम् अमावास्याशब्दवाच्या भवामीति | अमा सह वसुरूप इन्द्रो वसति अ- स्यां तिथौ इति अमा. स्याशब्दनिरुक्तिरिति तैत्तिरीये श्रूयते । “अ- “मा वै नोद्य वसु वसतीति । इन्द्रो हि देवानां वसु । तद् अ- १DKKRŚVC- १ for ३. We with A B. ६०