पृष्ठम्:अथर्ववेदसंहिता-भागः २.pdf/४८१

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

४७४ अथर्वसंहिताभाष्ये "मावास्याया अमावास्यत्वम्” इति [ नै ० सं० २.५.३.६] ॥ दशमी ॥ आगन् रात्र संगम॑नी॒ी वसू॑नामूज पुष्टं वस्वा॑वे॒शय॑न्ती । अमावास्या यै ह॒विषा॑ विधेमोर्ज दुहा॑ना पय॑सा न आग॑न् ॥ ३ ॥ आ । अ॒ग॒न् । रा॒त्रा॑ । स॒म॒ऽगम॑नी | वसू॑नाम् । ऊर्ज॑म् । पु॒ष्टम् । वसु॑ । आऽवेशयन्ती । अमाऽव॒स्या॒ये । ह॒विषा॑ । वि॒धेम॒ । ऊर्ज॑म् । दुहा॑ना । पय॑सा । नः । आ । अगन् ॥ ३ ॥ रात्री अमावास्याकालयुक्ता तिथि: वसूनाम् धनानां संगमनी संयो- जयित्री । ॐ विधेयविशेषणम् एतत् है । अस्मान धनं संयोज- यितुम् आगन् आगच्छतु । X गमेश्छन्दसे लुङि “मन्त्रे घस " इति हेर्लुक् । “मो नो धातोः " इति नत्वम् । तथा ऊर्जम अन्नरसं पुष्टम् पोषं वसु धनं च आवेशयन्ती अस्मदभिमुखं प्रयच्छ- न्ती आगन्निति संबन्धः । अमावास्यां गोरूपेणाह । नः अस्माकम् ऊ- र्जम् अन्नरसं पयसा क्षीरेण सह दुहाना आगन् आगच्छतु । “अ- मावास्या सुभगा सुशेवा धेनुरिव भूय आप्यायमाना" इति शाखान्तरे श्रूयते [तै ब्रा० ३.७.५.१३] | तादृश्यै अमावास्याये तदर्थम् । य- कर्मण: संमदानत्वाञ्चतुर्थी । अमावास्यां देवतां ह- द्वा। विषा आज्यादिरूपेण विधेम परिचरेम ॥ [ इति ] सप्तमेनुवाके द्वितीयं सूक्तम् ॥ अमावास्ये न ” इत्यस्याः सर्वाभिलषितकर्मणि कृण्वन्" इत्यत्र विनियोग उक्तः ॥ सर्वफलकाम: "पूर्णा पश्चात्" इति डाभ्याम् पौर्णमासी प्रथमा यज्ञियासीत्" इत्यनया च पौर्णमासीं यजेत उपतिष्ठेत वा ॥ तस्मिन्नेव कर्मणि "प्रजापते न त्वत्" इत्यनया प्रजापति यजेत उ पतिष्ठेत वा ॥ 66 “यत् ते देवा अ