पृष्ठम्:अथर्ववेदसंहिता-भागः २.pdf/४८२

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

[अ॰ ७. सू° ४४.]३९९ सप्तमं काण्डम् | ४७५ 66 " यत् ते देवा अकृण्वन् [७.४४] पूर्णा पश्चात् [ ७.४५] प्रजापते [७.४५.३] इति [ कौ० ७.१०] सूत्रात् ॥ 66 ८८ " पूर्णमासयागे "पूर्णा पश्चात्" इति पूर्णमासी देवतां परिगृह्णीयात् । 'राकाम् अहम् [ ७. ५०] पूर्णा पश्चात् [७.४५] इति पौर्णमास्याम्' इति [वै० १.१] वैतानसूत्रात ॥ 66 तत्रैव कर्मणि 'पूर्णा पश्चात्” इति पार्वणहोमं जुहुयात् । पूर्णा पश्चाद् इति पौर्णमास्याम्” इति हि कौशिकं सूत्रम् [ कौ० १. ५.] ॥ दर्शपूर्णमासयोः संन॑तोमानन्तरं “प्रजापते न त्वत्" इत्यनया आ- ज्यं जुहुयात् । 'पृथिव्याम् अनये समनमन् [ ४.३९] इति संनतिभिश्च प्रजापते न वद् एतान्यन्यः [७.४५.३] इति च” इति [ कौ० १. ५ ] 66 सूत्रात् ॥ " ८८ तथा सर्वेषु श्रौतकर्मसु अनुमन्त्रणमन्त्रानादेशे "प्रजापते न त्वत् " इत्यनया अनुमन्त्रणं कुर्यात् । तद् उक्तं वैताने । मन्त्रानादेशे लिङ्ग- 'वतेति भागलि: । प्रजापते न त्वद् एतान्यन्य इति युवा कौशिकः । 'यथादेवतम् इति माठरः इति [वै० १.१] ॥ 39 तथा दर्शपूर्णमासयो: प्राजापत्यम् आघारम् अनया ब्रह्मा अनुमन्त्र- येत । 'प्रजापते न लद् एतान्यन्य इति प्राजापत्यम् आघारम्" इति [वै०१.२] सूत्रात् ॥ तथा “मारुद्गणीं बलकामस्य " इति [ न०क० १७] विहितायां म- हाशान्तौ “प्रजापते न त्वत्" इत्येनाम् ऋचम आवपेत् । तद् उक्तं नक्षत्रकल्पे । “मरुतां मन्वे [ ४.२७] प्रजापते न वद् एतान्यन्य: [७. ४५.३] इति मारुद्गण्याम्" इति [ न॰ क° १७ ] ॥ विवाहे "पूर्वापरम्" इति ज्यूचेन आज्यसमित्पुरोडाशादीनि जुहुयात् । सूत्रितं हि । “सत्येनोत्तभिता [ १४.१] पूर्वापरम् [ ७.८६] इत्युपदधी- त" इति [ कौ० १०.१].॥ महाशान्तौ ग्रहयज्ञे “सोमस्यांशो युधां पते” इति चतुर्ऋचेन हवि- - राज्यहोमसमिदाधानोपस्थानानि बुधाय कुर्यात् । तद् उक्तं शान्तिकल्पे । 1S' संनिति° 2S संनतिभ्यश्च. We with Kausika. "" ८८