पृष्ठम्:अथर्ववेदसंहिता-भागः २.pdf/४८५

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

४७८ अथर्वसंहिताभाष्ये पभोगेपि क्षयरहितां रयिम् रायं धनं दतु । अक्षिताम इत्यनेन पर कृतः क्षयो निरस्यते । अनुपदस्वतीम् इत्यनेन उपभोगेन व्ययेपि क्षय- राहित्यम् उच्यते । हु अक्षिताम इति । क्षि क्षये । कर्मणि : । निष्ठायाम् अण्यदर्थे” इति पर्युदासाद् दीर्घाभावः । अत एव यो दीर्घात्” इति निष्ठानत्वाभावश्च । अनुपदस्वतीम् इति । दसु क्षये । संपदादिलक्षणो भावे किप् | तदन्तान्मनुप् । 'मादुपधाया." इति वत्वम् । “तसौ मत्वर्थे” इति भसंज्ञायां पदसंज्ञानिबन्धनरुत्वा- भावः । अनुपदस्वतीम् इति । "नञ्” इति तत्पुरुषसमासः । “त- त्पुरुषे तुल्यार्थ” इति अव्ययपूर्वपदप्रकृतिस्वरत्वम् ॥ चतुर्थी ॥ प्र॒जा॑पते॒ न वदे॒तान्यन्यो विश्वा॑ रूपाणि परिभूर्जेजान । 66 यत्का॑मस्ते जुहु॒मस्तन्नो॑ अस्तु व॒यं स्या॑म॒ पत॑यो रयी॒णाम् ॥ ३ ॥ प्र॒जा॑ऽपते । न । त्वत् । ए॒तानि॑ । अ॒न्यः । विश्वा॑ रू॒पाणि॑ प॒रि॒ऽभूः । ज॒जा॒ान् । यन्ऽका॑माः । ते॒ । जु॒हु॒मः । तत् । नः । अ॒स्तु । व॒यम् । स्या॒ाम॒ । पत॑यः । रयीणाम् ॥ ३ ॥ एषा ऋक् “अमावास्ये न त्वदेतानि ” [७.६४.४] इत्यनेन व्या- ख्याता । अमावास्यापदस्थाने प्रजापतिपदं विशिष्यते ॥ पञ्चमी ॥ पौर्णमासी प्र॑थ॒मा य॒ज्ञिया॑सीदां रात्रणामतशर्व॒रेषु॑ । ये त्वां य॒ज्ञैर्य॑ज्ञिये अ॒र्धय॑न्त्य॒मी ते नाके॑ सु॒कृत प्रवि॑ष्टाः ॥ ४ ॥ पौर्णमासी । प्रथमा । य॒ज्ञिया॑ । आ॒स॒त । अहा॑म् | रात्रीणाम् । अ- ति॒ऽशर्वरेषु॑ । ये । त्वाम्। य॒ज्ञैः । य॒ज्ञिये॒ । अ॒र्धय॑न्ति । अ॒मी इति॑ । ते' । नाके॑ । सु॒ऽकृत॑ः । प्रवि॑िष्टाः ॥ ४ ॥ १ D Pà. We with ABBKKR SPJ V C. CP.