पृष्ठम्:अथर्ववेदसंहिता-भागः २.pdf/४८६

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

[अ॰ ७. तू° ४६.] ४०१ सप्तमं काण्डम् | ४७९ वति । णि । पौर्णमासी पूर्णचन्द्रवती एतनामिका तिथि: अह्नां रात्रीणाम अहो- रात्राणां मध्ये प्रथमा आदिभूता मुख्या वा यज्ञिया यज्ञार्हा आसीत् भ- “यज्ञविंग्भ्यां घखजौ " इति घप्रत्ययः । विषय इति तद् आह । अतिशर्वरेषु । अतिक्रान्तानि शर्वरीम् “अत्यादयः कान्ताद्यर्थे द्वितीयया" इति समासः । रा- त्रिम अतीत्य वर्तमानेषु सोमादिहविष्षु । यद्वा अतिशयिता शर्वरी येषु हविष्षु इति अतिशर्वराणि । तृतीयसवनव्यापिषु हविष्षु । यज्ञियासीद् इति संबन्ध: । अयम् अर्थ: । इष्टिपशुसोमानां दर्शपूर्णमासौ प्रकृतिभूतौ । तत्रापि पूर्णमासयागः प्रथमानुष्ठेयः । स च पौर्णमास्यामेव तिथौ कि- यत इति सर्वेषाम अहोरात्राणां प्रथमत्वेन यज्ञार्हेति ॥ हे यज्ञिये यज्ञा पौर्णमासि त्वां ये ऋत्विग्यजमाना यज्ञैः दर्शपूर्णमासादिभिः अंर्दयन्ति अभिमतफलं याचन्ते । अर्द गतौ याचने च । अभी इष्ट- वन्तस्ते सुकृतः सुकर्माणो यजमानाः नाके दुःखरहिते स्वर्गलोके प्रविष्टाः स्थिता भवन्ति ॥ कस्मिन् अतिशर्वरा- षष्ठी ॥ पूर्वापरं च॑रतो मा॒ययै॒तौ शिशू क्रीड॑न्तो॒ परि॑ यातोर्ण॒वम् । विश्वा॒न्यो भुव॑ना वि॒चष्ट॑ ऋ॒ते॑र॒न्यो वि॒दध॑ज्जायसे॒ नव॑ः ॥ १ ॥ पूर्व॒ऽअपरम् । च॒रः : मा॒यया॑ । ए॒तौ । शिशू॒ इति॑ । क्रीड॑न्तौ । परि॑ । यातः । अर्णवम् । विश्वा॑ । अ॒न्यः । भुव॑ना । वि॒ऽचष्टै । ऋ॒तून अन्यः । विऽदध॑त् । जायसे । नव॑ः ॥ १ ॥ कश्चित् पूर्वो गच्छति सूर्य: । अन्यस्तम् अनुचरति चन्द्रमाः । एवम् एतौ सूर्यचन्द्रौ पूर्वापरम । क्रियाविशेषणम् एतत् । पौर्वापर्येण माय- या सह चरतः धुलोके गच्छतः । तौ शिशुवद् भ्रमणात् जायमान- त्वाद् वा शिशू इत्युच्येते | शिशू सन्तौ क्रीडन्तौ विहरन्तौ अर्णवम् । अ- १ R यातां अर्ण° २ AB र॒ण्यो. R तूरन्या. ३D S 'यत. We with A BKKRVC-