पृष्ठम्:अथर्ववेदसंहिता-भागः २.pdf/४८७

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

४४० अथर्वसंहिताभाष्ये न्तरिक्षनामैतत् । अणसि उदकानि अस्मिन् सन्तीति अर्णवः । र्णस: सलोपश्च" इति वप्रत्ययः सकारलोपश्च । "अ- अन्तरिक्षं परि यातः परि गच्छतः । तयोरन्यः आदित्यो [ विश्वा] विश्वानि भुवना भुवनानि भूतजातानि विचष्टे पश्यति । हु“एकान्याभ्यां समर्था- 66 भ्याम्" इति निघातनिषेधः । तिङि चोदात्तवति" इति गतेर्निधा- अन्यश्चन्द्रमाः ऋतून् वसन्तादीन् तदवयवभूतान् मासान् अर्धमासांच विधत् कुर्वन् नव: नूतनः जायतें उत्पद्यते । यद्यपि उ भयोर्जनिरस्ति तथापि सूर्यस्य सर्वदा प्रवृद्धेः उदयो नाभिप्रेतः । चन्द्र- स्य तु कलाहासवृद्धिसद्भावाद् नवो जायत इत्युक्तिर्युक्ता । 'चन्द्रमा वै जायते पुनः" इत्यादिश्रुतेश्च [ वा० सं० २३.१०] ॥ सप्तमी ॥ · नवनवो भवसि जाय॑मा॒ानो के॒तुरु॒षसा॑मे॒ण्यय॑म् । भागं दे॒वेभ्यो वि द॑धास्या॒ायन प्र च॑न्द्रमस्तिरसे दी॒र्घमायु॑ः ॥ २ ॥ नव॑ऽनवः । भव॒सि॒ । जाय॑मानः । अहा॑म् | के॒तुः । उ॒षसा॑म् । ए॒ष । अग्र॑म् । भा॒गम् । दे॒वेभ्य॑ः । वि । धासि॒ । आऽयन् | म । च॒न्द्रुमः । तिरसे । दी- र्धम् । आयु॑ः ॥ २ ॥ 66 सि । हे चन्द्रमः त्वं जायमानः शुक्लपक्षप्रतिपदादिषु एकैककलाधिक्येन उत्प- द्यमानः सन् नवोनवः पुनः पुनरभिनवो भवसि प्रतिदिनं नूतन एव भव- “ अनुदात्तं च ” इति द्वितीयो नवशब्दः अनुदात्तः । किं च अहाम तिथीनां केतुः केतुवत् केतयिता ज्ञापयिता प्रतिपदादीनां तिथीनां चन्द्रकलाहासवृद्ध्यधीनत्वात् । तादृशस्वम् उषसाम् रात्रीणाम् अग्रम एषि अग्रणीर्भवसि । रात्रीणां कर्तृत्वात् । यहा अहां केतुः अ हरवसाने शुक्लपक्षे प्रतीच्यां दिशि दृश्यसे कृष्णपक्षे तु उषसाम् रात्री- णाम् अग्रम् अवसानम् एषि । प्राच्यां दिशि दृश्यस इत्यर्थ: । केचन एतं पादम् आदित्यदेवत्यम् आहुः । तस्मिन् पक्षे अहां केतुत्वम् उष- साम अग्रगतिश्च सूर्यस्य प्रसिद्धे । एवम् आयन् आगच्छन् प्रतिदिनं