पृष्ठम्:अथर्ववेदसंहिता-भागः २.pdf/४८८

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

[अ॰ ७. सू० ६ ६.] ४०१ सप्तमं काण्डम् | ४८१ हासवृद्धिभ्यां पक्षान्तम् अभिंगच्छन् हे चन्द्रमः त्वं देवेभ्यो भागम हवि- र्भागं वि दधासि करोषि । तिथिविशेषरूपपर्वनिबन्धनत्वात् सर्वयागा- नाम् । एवमुक्तलक्षण हे चन्द्रमः त्वं दीर्घम् आयुः प्र तिरसे । पूर्वस्तिरतिर्वर्धनार्थः ४ । प्रवर्धयसि । प्रम- अ अत्र निरुक्तम् । नवो- नवो भवसिं जायमान इति पूर्वपक्षादिम अभिप्रेत्य | अहां केतुरुषसाम् एत्यग्रम् इति अपरपक्षान्तम् अभिप्रेत्य | आदित्यदैवतो द्वितीयः पाद इ- त्येके । भागं देवेभ्यो विदधात्यायन्निति अर्धमासेज्याम् अभिप्रेत्य । प्रवर्ध- यते चन्द्रमा दीर्घम आयुः इति [ नि०११.६]४ ॥ अष्टमी ॥ सोम॑स्यांशो यु॒धः॑ प॒तेन॑नो॒ नाम॒ वा अ॑सि । अनूनं दर्श मा कृधि प्र॒जया॑ च॒ धने॑न च ॥ ३ ॥ सोम॑स्य । अ॑श॒शो॒ इति॑ । यु॒धा॒म् । पते॒ अनु॑नः । नाम॑ । वै । अ॒सि॒ । अनू॑नम् । दश॑ । मा॒ा । कृ॒धि॒ । प्र॒ऽजया॑ । च॒ । धने॑न । च॒ ॥ ३ ॥ ह सोमस्यांशो सोमस्य चन्द्रमस: अंशभूत सोमपुत्र हे बुध हे यु- धां पते युद्धानां योधानां वा पालक । बुधग्रहबलेन हि युद्धजयो भ- वतीति प्रसिद्धम् । ए आमन्त्रितद्वयेपि “सुबामन्त्रिते पराङ्गवत् स्व- रे” इति सोमस्येति युवाम् इति च पदवयस्य आमन्त्रितानुप्रवेशः । तत्र सोमस्यांशो इत्यत्र 'आमन्त्रितस्य च " इति षाठिकम आधुदात्त- त्वम् । युधां पते इत्यस्य " नामन्त्रिते समानाधिकरणे सामान्यवचनम् इति पूर्वामन्त्रितस्य अविद्यमानवत्त्वनिषेधात् 'आमन्त्रितस्य च” इति आष्टमिकं सर्वानुदात्तत्वम् ' एवंगुणविशिष्ट सोमपुत्र हे बुध त्वम् अनून: संपूर्णो नाम असि वे भवसि खलु । सर्वदा तेजस्वित्वेन अनू- नत्वम् । अतः हे दर्श द्रष्टव्य बुध मा मां हविरादिना त्वां प्रीणयन्तं मजया पुत्रादिकया धनेन । परस्परसमुच्चयार्थी चशब्दौ । अनूनम् संपूर्ण समृद्धं कृधि कुरु ॥ एवं विनियोगानुसारेण बुधग्रहपंरतया व्याख्यातः । A 1S' अनिग" 2SoS. BS' समृद्धिं. ६१ 22