पृष्ठम्:अथर्ववेदसंहिता-भागः २.pdf/४८९

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अथर्वसंहिताभाष्ये मन्त्रार्थपर्यालोचनया सोम एव प्रतीयते । तस्मिन् पक्षे अयम् अर्थः । हे सोमस्यांशो सोमस्य संपूर्णकलस्य चन्द्रस्य अंशो अंशंभूत एककलावच्छि- न शुक्ल प्रतिपदि दृश्यमान चन्द्र हे युधां पते त्वं नाम नाम्ना अनूनो- सि संपूर्णकल इति प्रसिद्धोसि । चन्द्रस्य संपूर्णकलत्वमेव सहजो धर्मः । तत्र कलाहासवृद्धी सूर्यमरीचिसमाश्लेषतारतम्येनेति ज्योतिःशास्त्रविद आ- हुः । यतः संपूर्णकल: अतो हे दर्श द्रष्टव्य सर्वैरभिनन्दनीय त्वं मा मां तुभ्यं हविः प्रयच्छन्तम् । प्रजाधनाभ्यां संपूर्ण कुरु इति । सोम- देवत्योपि मन्त्रो जन्यजनकयोरभेदोपचाराद् बुधग्रहविषयहविर्दानादिषु वि- नियुज्यते । * कृधीति । डुकृञ् करणे | लोटि हे: “श्रुशृणुष्कृवृ- भ्यश्छन्दसि” इति धिरादेशः । विकरणस्य लुक् छान्दसः ॥ ॥ नवमी ॥ ४६२ 66 दर्शोसि दर्शतो सि सम॑ग्रोसि॒ सम॑न्तः । सम॑ग्र सम॑न्तो भूयासं॒ गोभि॒रश्वैः प्र॒जया॑ प॒शुभि॑र्गृहेर्धने॑न ॥ ४ ॥ द॒र्शः । अ॒सि॒ । दुर्शतः । अ॒सि॒ । समऽअ॑ग्र । अ॒सि॒ । सम्ऽअ॑न्तः । समा॒ऽअंग्रः । सम्ऽअ॑न्तः । भूया॒ास॒म् । गोभि॑ः । अश्वे॑ । प्र॒ऽजया॑ । प॒- शु॒ऽभि॑िः । गृ॒हैः । धने॑न॒ ॥ ४ ॥ हे सोम त्वं दर्शोसि सूर्येण सहैव द्रष्टव्यो भवसि । अमावास्यायां सूर्येण सह चन्द्रमा दृश्यते इति सा तिथिदर्शशब्देन उच्यते । यद्वा द- शोंसि शुक्लप्रतिपदि एककलात्मना द्रष्टव्यो भवसि । अनन्तरं दर्शतः तू- दोस्फुटं दर्शनीयो भवसि । अथ समग्र : अष्टम्यादिषु ततोपि स्फुटतरं कलासमृद्धो भवसि । अनन्तरं समन्तः पौर्णमास्यां सं- गतान्तप्रदेश: सर्वकलापूर्णमण्डलो भवसि । यत एवम् अतोहं गवादि- भिः समग्रः समृद्धः समन्तः संपूर्णश्च भूयासम् ॥ १ ADRADR दर्शतोसि. 1S' अंशु° 2S' rads the passage from this word in the following manner: मा मां सोमदेवत्यापि मंत्रा जन्मजनकयोरभदोपचाराधग्रहविषयविर्दानादिषु विनियुज्यते । प्रजा- धनाभ्यां संपूर्ण कुरु इति । कृधीति | डुकृञ् छांदसः तुभ्यं हविः प्रयच्छंतम्.