पृष्ठम्:अथर्ववेदसंहिता-भागः २.pdf/४९२

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

[अ॰८. सृ. ८७.] ४०२ सप्तमं काण्डम् । ४८५ 66 मिध आध्यात् । सूत्रितं हि । 'मय्यग्र इति पञ्चमश्नेनादधाति ” इति [ कौ॰७.४ ] ॥ तथा आधाने मथितानिं 'मय्यग्रे" इत्यनेन आज्येनाक्तं कुर्यात् । 'मय्यग्र इत्येतयानक्ति' इति वैतानं सूत्रम् [वै०२.१] ॥ दर्शपूर्णमासयो: “घृतं ते अग्ने" इत्यनया आज्यनिर्वापकाले अग्निं ” ब्रह्मा अनुमन्त्रयेत । 'घृतं ते अग्न इत्याज्ये निरुप्यमाणेग्निम्” इति वैतानं सूत्रम् [ वै० १.२] ॥ 66 जलोदर भैषज्यार्थी नद्यो: संगमे मण्डपं कृत्वा “अप्सु ते राजन्” इ- ति चतुर्ऋचेन उष्णोदकं संपात्य अभिमन्य पिञ्जलीभिस्तस्मिन् मण्डपे व्याधितम् आमावयेत् ॥ तथा अनेन चतुर्ऋचेन अभिमन्त्रितशीतोदकेन तस्मिन् मण्डपे व्या- धितं पिञ्जलीभिः सह अवसिञ्चेद् वा ॥ << सूत्रितं हि । अप्सु त इति वहन्त्योर्मध्ये विमिते पिञ्जलीभिरालाव- यति । अवसिञ्चति । अत्युष्णा: संपातवतीरसंपाता : ” इति [ कौ०४.६] ॥ तथा धूमकेतुदर्शनलक्षणाद्भुतप्रायश्चिार्थ वारुणपशोरवदानानि “अप्सु ते राजन्” इति चतुर्ऋचेन प्रत्यूचं जुहुयात् । तद् उक्तं कौशिकेन । "अप्सु ते राजनिति चतसृभिर्वारुणस्य जुहुयात्" इति [ कौ० १३.३५] ॥ पशुतन्त्रे हृदयशूलोहासनानन्तरम् “अप्सु ते राजन्" इत्यस्य जपे विनियोगः । 'अप्सु ते राजन्त्रिति जपन्ति इति वैतानं सूत्रम् [ वै० २.६] ॥ 6८ 66 तथा अद्भुतमहाशान्तौ " अप्सु ते राजन्” इति वरुणं यजेत । तद् उक्तं नक्षत्रकल्पे । “ इन्द्रेमं प्रतरं कृधि [ ६. ५.२] इति इन्द्रस्य अप्सु ते राजन् [७.४६] इति वरुणस्य " इति [ न० क० १४] ॥ तथा शवसंस्कारानन्तरम् उदकसमीपे ब्रह्मा “उदुत्तमम्" इति जंपेत् || अन्त्येष्ट्यादिषु स्वस्त्ययनार्थं "प्रास्मत् पाशान् ” इति जपेत् ॥ तत्र प्रथमा ॥ अ॒भ्यर्चत सुष्टुतिं गव्य॑मा॒जिम॒स्मासु॑ भ॒द्रा द्रवि॑णानि धत्त । 1S' मंट° After this S has a blank space of about twenty-four letters.