पृष्ठम्:अथर्ववेदसंहिता-भागः २.pdf/४९४

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सप्तमं काण्डम् । मयि॑ प्र॒जां मय्यायु॑र्दधामि॒ स्वाहा मय्य॒ग्निम् ॥ २ ॥ मयि॑ । अग्ने॑ । अ॒ग्निम् । गृ॒ह्णामि॒ । स॒ह । क्ष॒त्रेण॑ । वर्च॑सा । बलेन 1 मयि॑ प्र॒ऽजाम् । मयि॑ । आयु॑ । दु॒धा॒मि॒ । स्वाहा॑ । मयि॑ । अ॒ग्निम् ॥ २ ॥ [अ०४. सू° ८७.]४०२ ४८७ अग्रे प्रथमम् अग्निम् आहुताधारं मथ्यमानम् अग्निं मयि गृह्णामि धारयामि । मदधीनं करोमीत्यर्थः । केन सहेति तद् आह । क्षत्रेण बलेन वर्चसा तेजसा । यद्वा क्षत्रेण क्षतात् त्रायकेण वर्चसा बलेन शा- रीरेण सामर्थ्येन सह अग्निं गृह्णामि । क्षत्रतेजोबलार्थम् अग्निं स्वाधीनं करोमीत्यर्थः । तथा अग्निस्वाधीनीकरणेन प्रजाम् पुत्रादिलक्षणां मयि दधामि । पुत्रादिकं लभेयेत्यर्थः । आयुः जीवनं मयि दधामि । आयुष्मान् भूयासम् इति यावत् । तथा अग्निम जाठरं वैश्वानरम् अग्निं मयि द- धामि अन्नपाकादिजनितारोग्यार्थम् अग्निं धारयामि । स्वाहा इदं समि- दादिरूपम अनौ वाहुतम् अस्तु ॥ तृतीया ॥ इ॒हैवाने॒ अधि॑ धारया र॒यिं मा त्वा नि ॠन् पूर्वचित्ता निका॒रिः । क्ष॒त्रेणा॑ग्ने॒ सु॒यम॑मस्तु तु॒भ्य॑मु॒पस॒त्ता व॑र्धतां ते॒ अनि॑ष्टृतः ॥ ३ ॥ इ॒ह । ए॒व । अ॒ग्ने॒ । अधि॑ । धा॒रय॒ । र॒यिम् । मा । त्वा॒ । नि । ऋ॒न् । पूर्व॑ऽ- चित्ताः । निsकारिणः । क्ष॒त्रेण॑ । अ॒ग्ने॒ । सु॒ऽयम॑म् । अ॒स्तु॒ । तु॒भ्य॑म् । उप॒ऽस॒त्ता । वर्धताम् । ते । अनि॑ऽस्तृतः ॥ ३ ॥ हे असे इहैव अस्मास्त्रेव त्वां परिचरत्सु रयिम् धनम् अधि धारय अधिकं स्थापय । हु“अन्येषाम् अपि दृश्यते” इति दीर्घः । ये पूर्वचित्ता: अस्मत्तः पूर्व त्वंद्विषयमनस्का निकारिणः अस्मदपकारिणः ते त्वां मा नि ऋन् स्वाधीनं मा कार्षुः । एवं वा योजना । निका- रिणः अस्मदपकारिणः पूर्वचित्ताः अस्मत्तः पूर्वमपि त्वविषययागकरणम- १ P Þ J Cr all give the visarga after अनं० 1S' तद्विषय°.