पृष्ठम्:अथर्ववेदसंहिता-भागः २.pdf/४९६

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

[अ॰. सू. ८७.] ४०२ सप्तमं काण्डम् । ४८९ ग्निः उत्तरार्धेन स्तूयते । सूर्यः सूर्यात्मक | श्रूयते हि तैत्तिरीयके । “उ- “द्यन्तं वावादित्यम् अग्निरनुसमारोहति । तस्माद् धूम एवानेर्दिवा दह- "शे ” इति [तै ० ब्रा०२ १.२.१०] । सूर्यात्मकोग्नि: उषसोऽनु प्रकाश- ते । ततो रश्मीन् व्यापनशीलान् किरणान् अनु प्रकाशते । इत्यम् अनेन क्रमेण द्यावापृथिवी द्यावापृथिव्यौ अन्वा विवेश सर्वत्र द्यावाट थिव्योराविष्टः प्रकाशत इति । “दिवसश्च पृथिव्याम्" इति द्या- वादेशः । द्वितीयाद्विवचनस्य वा छन्दसि ” इति पूर्वसवर्णदीर्घः । “दे- बताद्वन्द्वे च " इति पूर्वोत्तरपदयोर्युगपत प्रकृतिस्वरत्वम् ॥ ८८ पञ्चमी ॥ प्रत्य॒ग्निरु॒षसा॒मन॑म॒ख्यत् प्रत्यहा॑नि प्रथमो जातवे॑दाः । प्रति॒ सूर्य॑स्य पुरु॒धा च॑ र॒श्मीन् प्रति॒ि द्यावा॑पृथिवी आ त॑तान ॥ ५ ॥ प्रति॑ि । अग्निः । उ॒षसा॑म् । अग्र॑म् | अख्यत् । प्रति॑ । अहा॑नि । प्रथमः । । जातवे॑दाः । प्रति॑ । सूर्य॑स्य । पुरु॒ऽधा । च॒ । र॒श्मीन् । प्रति॑ । द्यावा॑पृथि॒वी इति॑ । आ । ततान् ॥ ५ ॥ ते । । किं " पूर्वार्ध पूर्वमन्त्रेण व्याख्यातम् । अनोः स्थाने प्रति पदं विशिष्य- " लक्षण इत्यादिना प्रतेः कर्मप्रवचनीयत्वम् च पुरुत्रों पुरून् बहुरूपत्वाद् बहुधा प्रवृत्तान् । " " देवमनुष्य इत्यादिना त्राप्रत्ययः । सूर्यस्य रश्मींश्च प्रति अख्यत् प्रकाशते सू- र्यस्य रश्मीन् प्रति स्वयमेव प्रकाशते अग्निसूर्ययोः अत्यन्तभेदाभावात् । इत्यम् अनेन क्रमेण द्यावापृथिवी प्रत्या ततान सर्वत्र द्यावापृथिव्योरात- तो भवति । प्रकाशम आत्मीयम आतनोतीति यावत् ॥ "" षष्ठी ॥ घृ॒तं ते॑ अग्ने॑ दि॒व्ये स॒धस्ये॑ घृ॒तेन॒ त्वां मनु॑र॒द्या समि॑न्धे । 1S' देवमनुष्येभ्य इत्यादिना. ६२