पृष्ठम्:अथर्ववेदसंहिता-भागः २.pdf/४९८

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

[अ°४. सू°t.] ४०३ सप्तमं काण्डम् । ४९१ 'च्छन्दसि” इति मयटो मकारलोपो निपात्यते । सुवर्णमयो गृहः निवासस्थानम् अस्ति यतः ततः तस्मात् कारणाद् धृतव्रतः | व्रतम् इति कर्मनाम । नियतकर्मा सत्यकर्मा राजा वरुणः सर्वा सर्वाणि धामानि स्थानानि अस्मदीयानि मुञ्चतु त्यजतु । धामानि त्रयाणि भवन्ति 1 ज- स्थानानि नामानि जन्मानीति हि यास्क: [नि०९.२] । लोदरादयो रोगा हि वरुणकर्तृकाः | तस्य हि जलमध्ये निवासस्थानम अस्ति । अतः स्वेन गृहीतानि अस्मदीयावयवरूपाणि स्थानानि utar स्वगृहे निवसत्वित्यर्थः ॥ 66 अष्टमी | धधम्मो राजन्नतो व॑रुण मुञ्च नः । यदापो॑ अ॒घ्या इति॒ वरु॒णेति॒ यचि॒ष ततो॑ वरुण मुञ्च नः ॥ २ ॥ धाम्न॑ ऽधाम्नः । रा॑ज॒न् । इतः । वरुण । मुञ्च॒ । नः । यत् । आर्पः । अध्या: । इति । वरु॑ण । इति । यत् । ऊचिम । तत॑ः । वरुण | मुञ्च | नः ॥ २ ॥ हे राजन् हे वरुण इतः अस्माद् धाम्नोधाम्न: सर्वस्माद् रोगस्थानात् नः अस्मान् मुञ्च मोचय । धाम्रोधान इति । वीप्तायां द्विर्व- 66 चनम् । अनुदात्तं च " इति आम्रेडितस्य अनुदात्तत्वम् । किं च हे वरुण ततोपि पाधात् नः अस्मान् मुञ्च मोचय | हे आप: इ- ति हे अया: इति हे वरुण इति यद् ऊचिम यच्छापवाक्यम् अवो- चाम । यच्छापवाक्यवचनेन पापम् आर्जितं तस्मादपि मुञ्चेति संवन्धः | शापो हि प्रशस्तदेवतानामसंकीर्तनेन परेषाम् अनर्थाशंसनम् । यद्वा स- त्यसति वा विषये आपो वे सर्वा देवता: ” [ ऐ॰ब्रा०२, १६] इति सर्वदेवतात्मिकानाम् अपां साक्षित्वेन प्रमाणीकरणम् हविराधारभूताया 66 . गोर्वा जलाधिपतेर्वरुणस्य वा । उपलक्षणम् एतत् प्रशस्तदेवतानाम् अ- न्यासामपि । हे आप: यूयम् अस्मिन् सत्ये असले वा विषये साक्षि - .. So all our authorities. See Rw. The reading in As'valávana (Sranta, III. 6. 21 ) is also धानोधान: २PPJ वरु॑णः, We with Cr.