पृष्ठम्:अथर्ववेदसंहिता-भागः २.pdf/४९९

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

४९२ अथर्वसंहिताभाष्ये भूता भवष हे आपः युष्मभ्यं शपामहे इदम् इत्थम् इत्येवंविधं प्रशस्त- देवतानामधेयपुरःसरं यद् वाक्यं तेन पापम् आर्ज्यते । सत्येपि हि वि- षये शपथकरणेन धर्मस्यार्धं वैवस्वतो निकृन्तति किल असत्ये किमु व- क्तव्यम् । अतो देवतानामधेयकीर्तनरूपशपथकरणजनितपापाद् अस्मान् मोचयेत्यर्थः । अत्र ऊचिमेति पदेन वचनमात्रं न विवक्षितं किं नु शप- थरूपमेव । अत एव तैत्तिरीये “यदापो अघ्निया इति वरुणेति शपाम- हे" [तै॰ ब्रा० २. ६. ६. २] इति समाम्नायते । आपो अझ्या व- ० रुति श्रुतादातानां मन्त्रपदानाम् इदम् अनुकरणम् । ततश्च सत्यपि पदात् परत्वे आमन्त्रितनिघातो न प्रवर्तते । अझ्याशब्दो यमत्ययान्तः अ न्तोदात्र: । यथा “दुहाम् अश्विभ्यां पयो अध्येयम् ” [ ऋ० १.१६४. २७] इति । तस्य आमन्त्रिता धुँदात्तत्वम् । वरुणेति । षाष्टिकम् आ- धुदात्तलम् । ऊचिमेति । ब्रूञो लिटि वच्यादेशः । यजादित्वात् संप्र- सारणम् । “लिट्यभ्यासस्योभयेषाम्" इति अभ्यासस्य संप्रसारणम् ४ ॥ नवमी ॥ उदु॑त्त॒मं व॑रुण पाश॑म॒स्मदवा॑ध॒मं वि म॑ध्य॒मं श्रंथाय । अर्धा व॒यमा॑दित्य व्र॒ते तवाना॑गसो॒ अदि॑तये स्याम ॥ ३ ॥ उत् । उत्त॒मम् । वरुण । पाश॑म् । अ॒स्मत् । अव॑ । अ॒ध॒मम् । वि । म- ध्यमम् । श्रथय । अधि॑ । व॒यम् । आदि॒त्य । व्र॒ते । तव॑ । अना॑गसः । अदि॑तये । स्या॒म॒ ॥३॥ हे वरुण उत्तमम् ऊर्ध्वकायस्थितं पाशम् अस्मत् अस्मत्तः सकाशाद् उच्छ्रथय ऊर्ध्वम् उत्कृष्य नाशय । अधमस् अध:कायस्थितं पाशम् अव श्रथय अधस्ताद् अवकृष्य नाशय । मध्यमम् मध्यदेहस्थितं पाशं वि श्रय विकृष्य नाशय । Xथ दौर्बल्ये | चुरादिरदन्तः । वर्णव्याय- येन उपान्त्यस्य दीर्घतम् । यद्वा श्रन्थ मतिहर्षमोचनयोः । अस्मात् लोदि 'शायच्छन्दसि सर्वत्र ” इति नाप्रत्ययस्य शायजादेशः । “अतो हे १ BK अर्था. We witlh ABDRSPP JVC. २K अर्थ । " ""