पृष्ठम्:अथर्ववेदसंहिता-भागः २.pdf/५०३

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अथर्वसंहिताभाष्ये 66 दर्शपूर्णमासयो: दक्षिणाप्रतिग्रहानन्तरम् “एधोसि” इति मन्त्रेण आ- नीधः समिधम आदध्यात् । तद् उक्तं वैताने । 'संप्रेषित आनीध एधोसीति समुद्धृत्य समिधम् आधाय” इति [ वै०१.४] ॥ तथा स्मार्तदर्शपूर्णमासयोः संस्रावहोमानन्तरम् “एधोसि” इति म न्त्रेण द्वितीयां “समिदसि " इति मन्त्रेण तृतीयां समिधम आदध्यात् । "तेजोसि” इति मन्त्रेण मुखं विमृज्यात् । सूत्रितं हि । " अग्नये स्वा- 'हेति समिधम आदधाति । एधोसीति द्वितीयां समिदसीति तृतीयां "तेजोसीति मुखं विमार्टि” इति [कौ॰ १. ६] ॥ तथा अग्निकार्ये ब्रह्मचारी "एधोसि” इति हस्तम अग्नौ प्रताप्य उष्मा- णं भायेत् । “एधोसीत्युप्मभक्षं भक्षयति" इति हि [कौ०७.४] सूत्रम् ॥ जारोच्चाटनार्थ “अपि वृश्च” इति तृचेन जारं दृष्ट्वा वदेत् ॥ तथा अनेन पाषाणम् अभिमन्य जारसंगमस्थाने प्रक्षिपेत् ॥ सूत्रितं हि । “ अपि वृश्चेति जायायै जारम् अन्वाह | [क्लीवपदे ] बाधकं धनुर्विष्यति । आशयेश्मानं प्रहरति ” इति [ कौ० ४.१२] ॥ ४९६ तत्र प्रथमा || अनाधृष्यो जा॒तवे॑दा अम॑यो॑ वि॒राद॑ग्ने क्षत्र॒भृद् दी॑दहीह। विश्वा॒ा अमी॑वाः प्रमुञ्चन् मानु॑षीभिः शिवाभि॑िर॒द्य परि॑ि पाहि नो गय॑म् ॥१॥ अ॒नाधृष्य: । जा॒तवे॑दाः । अम॑र्त्यः । वि॒ऽराट् । अ॒ग्ने॒ । क्ष॒त्र॒ऽभृत् । दी॑दि॒- हि । इ॒ह । विश्वा॑ । अमी॑वः । प्र॒ऽमुञ्चन् । मानु॑षीभिः । शि॒वाभ: । अ॒द्य । परि॑ । पा॑हि॒ । नः॒ । गय॑म् ॥ १॥ हे अग्ने अनाधृष्य: ईषदपि धर्षयितुम् अशक्यः । ञिधृषा प्रा- गल्भ्ये । “ऋदुपधाच्चाकूपि चृतेः” इति क्यप् । " कृत्योकेष्णुकु" इत्या- दिना उत्तरपदान्तोदात्तत्वम् ४ । जातवेदा: जातानां वेदिता जातध- नो वा अमर्त्यः अंमरणधर्मा विराट् विविधं राजमानः क्षत्रभृत् क्षत्रस्य 1S' अशक्यम्. 1S संप्रोषित. 2 So S'. #S' जारायै. We with Kus iht.