पृष्ठम्:अथर्ववेदसंहिता-भागः २.pdf/५०४

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सप्तमं काण्डम् । ४९७ [अ॰ . सू०४९.] ४०४ बलस्य भर्ता धारयिता . दिहि दीप्यस्व | ईदृश: सन् इह अस्मिन् कर्मणि स्थाने वा दी -

  • दीदेतिर्दीप्तिकर्मा इति यास्क: । दीव्यतेर्वा “ब

हुलं छन्दसि " इति शप: श्रुः । तथा दीप्तश्च त्वं विश्वाः सर्वा अमीवा: रोगान् प्रमुञ्चन् प्रकर्षेण मोचयन् विनाशयन् मानुषीभिः मा- नुषहिताभिः । x“मनोजतावञ्यतौर इति अञ्प्रत्ययान्तो मानु- 66 षशब्दः । तस्मात् तस्येदम्" इत्यर्थे अण् । 'टिड्डाणञ्” इत्यादि- ना ङीप् । शिवाभिः कल्याणकारिणीभिः ऊतिभिः अद्य इदानीं नः अस्माकं गयम् गृहं परि पाहि सर्वतो रक्ष ॥ द्वितीया || 66 "" इन्द्र॑ क्ष॒त्रम॒भि वा॒ममोजोजा॑यथा वृषभ चर्षणी॒नाम् । अपा॑नु॒द॒द्रो॒ जन॑ममित्रायन्त॑मुरुं दे॒वेभ्यो॑ अकृणोरु लोकम् ॥ २ ॥ इन्द्र॑ । क्ष॒त्रम् । अ॒भि । वा॒मम् । ओज॑ः । अर्जायथाः । वृषभ । वर्ष- णीनाम् । । अप॑ । अ॒नु॒द॒ः । जन॑म् । अ॒मि॒त्र॒ऽयन्त॑म् । उ॒रुम् । दे॒वेभ्यः॑ । अ॒कृ॒णोः । ऊं इति । लोकम् ॥ २ ॥ हे इन्द्र क्षत्रम् क्षतात त्रायकं वामम् वननीयम् ओजः बलम् अभि- लक्ष्य अजायथाः उत्पन्नोसि । हे वृषभ कामानां वर्षितः चर्षणीनाम मनुष्याणाम् अस्माकम् । “नाम अन्यतरस्याम्" इति नाम उ दात्तत्वम् । उत्पत्त्यनन्तरम् अमित्रयन्तम् अमित्र: शत्रुः स इवा- चरन्तं जनम् अपानुद: अपागमयः । अपगमय्य च देवेभ्यः उरुम् वि स्तीर्ण लोकम् स्वर्गाख्यम् अकृणो: अकार्षी: सुखनिवासाय | शब्द: समुच्चये ॥ तृतीया ॥ मृगो न भीमः कु॑चरो गिरि॒ष्ठाः प॑रावत आ जंगम्यिात् पर॑स्याः । सृकं॑ सं॒शाय॑ प॒विमि॑न्द्र ति॒ग्मं वि शत्रून् ताति॒ वि मृधो॑ नुदस्व ॥ ३ ॥