पृष्ठम्:अथर्ववेदसंहिता-भागः २.pdf/५०५

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

४९८ अथर्वसंहिताभाष्ये मृगः । न । भीमः । कुच॒रः । गिरि॒िऽस्याः प॒राऽवत॑ः । आ । ज॒गम्यात् । परस्याः । । सु॒कम् । स॒मऽशाय॑ । प॒विम् । इन्द्र॒ | तिग्मम् । वि । शत्रून् । ताढ़ । वि । मृधः । नु॒द॒स्व॒ ॥ ३ ॥ कुचर: कुत्सितचरण: गिरिष्ठा: पर्वतनिवासी । X तिष्ठतेर्विच् प्र- त्ययः । मृगो न सिंह इव भीमः भयंकरो भवति इन्द्रः । स च परस्याः परावतः अतिशयेन दूराद् धुलोकाद् आ जगम्यात् आग- X गमेर्विधिलिङि व्यत्ययेन शप: शुः ॥ अथ प्रत्य- क्षकृत उत्तरोर्धर्च: । आगत्य च हे इन्द्र सृकम सरणशीलं तिग्मम् ती- छणं पविम् वज्रं संशाय सम्यक् तीक्ष्णीकृत्य । X शो तनूकरणे । ल्यपि रूपम् । शत्रून् अस्मदीयान वैरिणः वि ताळिंह तेन वज्रेण विशेषेण विविधं वा ताडय । विनाशयेत्यर्थः । as आघाते । अस्माण्ण्यन्तात् लोटि "इन्दस्युभयथा" इति हे: आर्धधातुकत्वात् णिलो- पः । तथा मृध: संग्रामोद्युक्तान् युयुत्सून् अन्यानपि शत्रून् वि नुदस्व विशेषेण प्रेरय | तिरस्कुर्वित्यर्थः ॥ 66 चतुर्थी ॥ त्यमू षु वाजिनं॑ दे॒वसू॑तं॒ सहवानं तरु॒तारं रथा॑नाम् । अरिष्टनेमि पृतनाजिमाशुं स्व॒स्तये॒ ताये॑मि॒हा हु॑वेम ॥ १ ॥ । त्यम् । ऊ॒ इति॑ । सु । वा॒जिन॑म् । दे॒वऽनू॑तम् । सह॑ऽवानम् | तरु॒तार॑म् । रथा॑नाम् । । अरि॑ष्टऽनेमिम् । घृ॒त॒ना॒ऽजिम् । आ॒शुम् । स्वस्तये॑ । ताक्ष्ये॑म् । इ॒ह । आ । हुवेम् ॥ १ ॥ त्यमु तं प्रसिद्धमेव तार्क्ष्यम् तृक्षपुत्रं सुपर्णम् । तृक्षशब्दो ग- र्गादिषु पठ्यते । इह अस्मिन् कर्मणि स्वस्तये क्षेमाय सु सुष्ठु आ हुवेम आह्वयेम । “बहुलं इन्दसि” इति ह्वयतेः संप्रसार-