पृष्ठम्:अथर्ववेदसंहिता-भागः २.pdf/५०७

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अथर्वसंहिताभाष्ये त्रातारम् रक्षकम् इन्द्रं [ हुवे ] ह्वयामि । अवितारम् इन्द्रम् इति पुनरुक्ति: पोतृतमत्वख्यापनार्था । यद्वा त्राणं नाम उपस्थितेभ्यो भयहे- तुभ्यो रक्षणम् । अवनं तु उदेष्यतां निरोध इति विशेषः । अथ वा पारमैश्वर्यलक्षणम् अवनम् । हवेहवे सर्वेषु ह्वानेषु सुहवम् ह्वानुं सुशकं शूरम् समर्थम् इन्द्रं ह्वयामि । तथा शऋम् शक्तं सर्वत्र पुरुहूतम् इ- न्द्रं नु क्षिमं हुवे ह्वयामि । स च मघवान् धनवान् इन्द्रः स्वस्ति - मम् अविनाशं नः अस्माकं कृणोतु करोतु । कृवि हिंसाकरण- 66 योश्च । 'धिन्विकृण्व्योर च” इति उप्रत्ययः ४ ॥ षष्ठी ॥ ५०० यो अ॒ग्नौ रु॒द्रो यो अ॒प्स्व॑न्तर्य ओष॑धीवी॒रुधं आवि॒वेश॑ । य इ॒मा विश्वा॒ भुव॑नानि चाकृ॒पे तस्मै॑ रु॒द्राय॒ नमो॑ अस्व॒ग्नये॑ ॥ १ ॥ यः । अ॒ग्नौ । रु॒द्रः । यः । अप्ऽसु । अन्तः । यः । ओष॑धीः । वी॒रुधः॑ । आ॒ऽववेश॑ । यः । इ॒मा । विश्वा॑ । भुव॑नानि । च॒कृ॒पे । तस्मै॑ । रु॒द्राय॑ । नमः॑ः । अ॒स्तु । अग्नये॑ ॥ १ ॥ यो रुद्रः रोदयति शत्रून् इति रुद्रः “रोदेर्णिलुक् च” [उ०२.२२ ] इति रक् प्रत्ययः । शेर्लुक् हु । एतन्नामा देवः अग्नौ अन्तः मध्यम् आविवेश यष्टव्यत्वेन अग्निमध्यं प्रविष्टः । यश्च अप्सु अ न्तः आविवेश वरुणात्मना प्रविष्टः । * “ऊडिदम्" इत्यादिना अप्शव्दाद् उत्तरस्या विभक्तेरुदात्तत्वम् । यश्च वीरुधः विशेषेण विविधं वा रोहन्तीः ओषधीः ओषः फलपाको धीयते निधीयते आ- स्विति ताः फलपाकान्ता लताः आविवेश सोमात्मना आविष्टः । वी- रुध इति । विपूर्वाद् रोहतेः किपि “नहिवृति" इत्यादिना उपसर्ग- स्य दीर्घः । हकारस्य धकारोपजनश्छान्दसः । किंबहुना यो १ P P चक्कॢपे. We with J Cr. 1S' ज्ञातृ°.