पृष्ठम्:अथर्ववेदसंहिता-भागः २.pdf/५१२

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

[ अ°, सू° ९५. ]४१० सप्तमं काण्डम् | ५०५ तृतीयपादेन । दासस्य उपक्षपयितुः शत्रोर्जारस्य ओजः बलं प्रजननस- मर्थ वीर्य वा दम्भय विनाशय । ॐ दम्भयतिर्वधकर्मा इति यास्क: ॥ त्रयोदशी ॥ व॒यं तद॑स्य॒ संभृतं॒ वस्वि॑न्द्रेण॒ वि भ॑जामहे । म्पया॑मि प्र॒जः शि॒िभ्रं वरु॑णस्य व्र॒तेन॑ ते ॥ २ ॥ व॒यम् । तत् । अस्य॒ । सऽभृ॑तम् | वसु॑ । इन्द्रेण । वि । भजामहै । म्लापया॑मि । भ्रजः । शिभ्रम | वरु॑णस्य | व्र॒तेन॑ । ते ॥ २ ॥ अस्य पुरोवर्तिनो जारस्य शत्रो: संभृतम् एकत्र संपादितं तद् वसु धनम् इन्द्रेण सहायभूतेन वयं वि भजामहै विभक्तम् अपगतं करवाम- है । यद्धा तस्य धनं वयं विशेषेण भजाभहै । तस्य धनस्य वयं भा गिनो भवाम इत्यर्थः ॥ उत्तरार्धे जारः संबोध्यते । हे जार ते त व शुभ्रम श्वेतवर्ण भ्रज: दीप्तम् अपत्यप्रजननसमर्थ रेतः वरुणस्य वा रकस्य देवस्य व्रतेन कर्मणा म्लापयामि क्षीणं करोमि । म्लै हर्षाये । ण्यन्तात् पुगागमः । भ्रजतेत्यर्थाद् असुनि रूपं भ्रज इति ॥ चतुर्दशी | यथा॒ा शेयो॑ अ॒पाया॑ते॒ स्वी॒ीषु चास॒दना॑वयाः । अव॒स्यस्य॑ दीव॑तः शाङ्कुरस्य॑ निनो॒दिन॑ः । यात॑त॒मव॒ तत् त॑नु॒ यदुत्त॑तं॒ नि तत् त॑नु॒ ॥ ३ ॥ यथा॑ । शेप॑ । अ॒प॒ऽअया॑तै । त्रि॒षु । च॒ । अस॑त् । अना॑वयाः । अ॒व॒स्यस्य॑ । ब्र॒दिऽव॑तः । शा॒ङ्कुरस्य॑ । नि॒ऽतो॒दिन॑ । यत् । आऽत॑तम् । अव॑ । तत् । त॒नु । यत् । उत्त॑तम् । नि । तत् । तनु ॥ ३ ॥ १ The word वसु may not improbably he an ancient intery fation, though all our Mss and vaidikas have it. २ So all our MSs and vaidil - ३ So all our MSS. and vaidikas. See Rw. ६४