पृष्ठम्:अथर्ववेदसंहिता-भागः २.pdf/५१४

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

[अ० ९. सू° ९६.] ४११ सप्तमं काण्डम् । ५०७ दैर्ध्यरहितं कुरु । तथा उत्ततम् ऊर्ध्वं विस्तृतम् उन्नतं यत् शेषः तत् नि तनु नितनं नीचीनं कुरु ॥ अष्टमेनुवाके द्वितीयं सूक्तम् ॥ श्रीमद्राजाधिराजराज परमेश्वरश्री वीर महाराजराज्यधुरंधरसाय- णार्यविरचिते माधवीये अथर्वसंहिताभाष्ये वेदार्थप्रकाशे सप्तमकाण्डे अष्टमोनुवाकः ॥ 66 " नवमेनुवाके द्वे सूते । तत्र 'इन्द्रः सुत्रामा " इत्याद्ये सूक्ते आद्ये- न तृचेन ग्रामकामः इन्द्रं यजेत उपतिष्ठेत वा ॥ तथा तस्मिन्नेव कर्मणि उदुम्बरपलाशकर्कन्धूनां समिदाधानसभोपस्त- रणहोमादीनि कर्माणि अनेन कुर्यात् ॥ “इन्द्र: सुत्रामेति ग्रामकामो ग्रामसांपदानामप्ययः सूत्रितं हि । इति [ कौ० ७.१०] ॥ 66 तथा इन्द्रमहाख्ये उत्सवे "इन्द्रः सुत्रामा " इत्यनया आज्यं जुहुयात् । सूत्रितं हि । 'अर्वाञ्चम इन्द्रम[ ५.३.११] त्रातारम् [ इन्द्रम][७. ९१ ] इन्द्र सुत्रामा [७.९६] इत्याज्यं हुत्वा” इति [ कौ० १४.४] ॥ 66 अग्निष्टोमे [“ ध्रुवं ध्रुवेण" इति ऋचा ] आसन्दीं नीयमानं सोमरा- जम् [ अनुमन्त्रयेत । उक्तं वैताने । ] “ भुवं ध्रुवेणेति राजानं राजवह- नाद् आसन्यां नीयमानम् अनुमन्त्रयते” इति [वै०३.३] ॥ 66 " तथा अग्निष्टोमे आग्निमारुतशस्त्रावसाने अवनीयमानं ध्रुवपात्रस्यसो- मम् अनया ब्रह्मा अनुमन्त्रयेत । “ध्रुवं ध्रुवेणेति ध्रुवम् अवनीयमानम् अनुमन्त्रयते” इति हि [ वै०३.१३] सूत्रम् ॥ " आभिचारिके कर्मणि “ उदस्य श्यावौ " इति तृचेन आज्यं जुहुयात् ॥ तथा तस्मिन्नेव कर्मणि सूत्रोक्तरीत्या अनेन तृचेन मण्डूकमुखम् अपनुदेत् ॥ अभिचारकर्मणि " असदन गाव : ” इति ऋचा रक्तशालितण्डुलै: क्षी- रौदनं कृत्वा संपात्य अभिमन्त्र्य द्वेष्याय दद्यात् ॥ 66 दर्शपूर्णमासयोः 'यद् अद्य त्वा प्रयति" इत्यष्टर्चेन संस्थितहोमान् 1S' आसंदी. 2S क्षीरोदनं.