पृष्ठम्:अथर्ववेदसंहिता-भागः २.pdf/५१६

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

[अ० ९. सू० ९९.] ४१४ सप्तमं काण्डम् । ५०९ तस्य॑ । व॒यम् । सु॒ऽम॒तौ । य॒ज्ञिय॑स्य । अपि॑ । भ॒द्रे । सौ॒म॒न॒से॑ । स्याम् ॥ १॥ सुत्रामा सुष्ठु त्राता स्ववान् धनवान् से प्रसिद्ध इन्द्रः अस्मत् अ- स्मत्तः आराच्चित् दूरादेव द्वेष: द्वेष्टृन् । द्विषतेर्व्यत्ययेन विच् प्रत्यये गुण: । द्वितीयाबहुवचनं शस् । सनुतः । अन्तर्हितना मैतत् । तिरोहितान् गूढान् युयोतु पृथक् करोतु । & यु मिश्रणामिश्रणयोः । बहुलं छन्दसि" इति शप: क्षुः । यज्ञियस्य यज्ञार्हस्य तस्य सौ- इन्द्रस्य सुमतौ शोभनायाम् अनुग्रहबुद्धौ वर्तमाना वयं तस्यैव भद्रे क- त्याणे सौमनसे सुमनसो भावे अपि स्याम विषयभूता भवेम | मनस इति । सुमन:शब्दाद् भावे अण् प्रत्ययः ॥ तृतीया || ८८ इन्द्रेण म॒न्युना॑ व॒यम॒भि प्या॑म पृतन्य॒तः । घ्नन्तो॑ वृ॒त्राण्य॑म॒ति ॥ १ ॥ इन्द्रे॑ण । म॒न्युना॑ । व॒यम् । अ॒भि । स्याम् । पृत॑न्य॒तः । घ्नन्त॑ः । वृत्राणि॑ । अ॒म॒ति ॥ १ ॥ इन्द्रेण सहायेन मन्युना तदीयेन कोपेन । यद्वा मन्यतिप्तिकर्मा | मन्युमता इन्द्रेण सहायेन वयं पृतन्यतः पृतनां संग्रामम् इच्छतः युयुत्सून् शत्रून् अभि ष्याम अभिभवेम x“ कप्यध्वरपृतनस्यचिलोपः” इ- ति क्यचि पृतनाशब्दस्य अन्त्यलोपः । अभि ष्यामेति । उपसर्गप्रा- दुर्भ्याम् अस्तिर्यपर: ” इति षत्वम् । किं कुर्वन्तः वयम् । वृ- त्राणि आवारकाणि पापानि । शत्रून् इत्यर्थः । अप्रति अप्रतिपक्षं न- न्तः यथा प्रतिपक्षशेषो न भवति तथा मन्तः । निःशेषं हिंसन्त इत्यर्थः ॥ चतुर्थी ॥ ध्रुवं ध्रुवेण॑ ह॒विषाव सोम॑ नयामसि । यथां न इन्द्रः केवलीर्विशः संम॑नसस्कर॑त् ॥ १ ॥ १ ABBK स्यांम. We with D KRSVC. 1S' यत्प्रसिद्ध for स प्रसिद्ध. ८८