पृष्ठम्:अथर्ववेदसंहिता-भागः २.pdf/५१७

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

५१० अथर्वसंहिताभाष्ये ध्रु॒वम् । भुवेण॑ । ह॒विषा॑ । अव॑ । सोम॑म् । न॒याम॑सि । यथा॑ । नः॒ । इन्द्र॑ । केव॑ली: | विर्शः । सम्ऽम॑नसः । कर॑त् ॥ १ ॥ । ध्रुवेण स्थिरेण सुप्रतिष्ठितेन हविषा पुरोडाशादिना युक्तं भुवम् ध्रुव- ग्रहस्थं सोमम् अव नयामसि अवाङ्मुखं निनयाम: । यद्वा ध्रुवम् स्थिरं सोमं राजवहनाद् अनसः सकाशाद् आसन्दीं प्रति अवतारयामः । य- था येन प्रकारेण इन्द्रो नः अस्माकं विश: प्रजा: केवली: असाधारणा: संमनसः संगतमनस्का: समानमनस्काश्च करत् करोतु । तथा अव न यामसीति संबन्धः । ॐ“केवलमामकभागधेय " इति केवलशब्दाद् ङीप् | करत् इति । करोतेलेटि अडागमः ॐ ॥ पञ्चमी ॥ उद॑स्य श्यावौ वि॑िथुरौ गृधौ द्याभि॑िव पेततुः । उच्छोचनप्रशोचनावस्योच्छ्रोच॑नौ हृदः ॥ १ ॥ उत् । अ॒स्य॒ । श्या॒वौ । वि॒िथुरौ । गृधौ । द्याऽइ॑व । घृ॒त॒तुः । उच्छोचनऽप्रशोचनौ । अ॒स्य | उतऽशोच॑नौ | हृदः ॥ १ ॥ M व्य- अस्य मण्डूकात्मना भावितस्य शत्रो: संबन्धिनौ विधुरौ । थ भयचलनयोः इत्यस्माद् औणादिकः कुरच् प्रत्ययः । छान्दसं संप्र- सारणम् । संततं चलनशीलौ श्यावौ श्याववर्णो ओष्ठौ उत्पेत- तुः उत्पतताम् उद्गच्छताम् । मण्डूकमुखापनोदनेन शत्रोरोष्ठौ विदारि- तो भवताम् इत्यर्थः । यद्वा । ॐ श्यैङ् गतौ इत्यस्माद् उत्पन्नः श्या- वशब्दः । श्यावौ परस्परसंसक्तौ शत्रुरूपेण भावितस्य मण्डूकस्य प्राणापानौ विधुरौ व्यथनशीलो भयवन्तौ मन्तौ उत्पतताम् इति । श्या- ववर्णो वा प्राणापानौ । तो हि वायोर्वृतिभेदौ । वायोर्हि धूम्रवर्णत्वं मन्त्रशास्त्रप्रसिद्धम् | उद्गमने दृष्टान्तः । गृधौ द्यामिवेति । यथा गृधौ ताय द्याम दिवम उत्पततः । ऋ" औतोमशसो: " इति द्योशब्द- स्य अमि परत आकारादेशः । पेतनुरिति । छान्दसो लिट् ” । च उच्छोचनप्रशोचना । उच्छोचयति ऊर्ध्वम् उत्कृष्य उत्कृष्टं वा शोकं किं