पृष्ठम्:अथर्ववेदसंहिता-भागः २.pdf/५१८

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

[अ० ९ सू°, १००]४१५ सप्तमं काण्डम् | ५११ करोतीति उच्छोचनः । प्रकर्षेण शोचयतीति प्रशोचनः । एतत्संज्ञकौ मृत्युदूतौ अस्य पुरोवर्तिमण्डूकरूपेण भावितस्य शत्रो: हृदः हृदयस्य उ च्छोचनौ उत्कर्षेण शोचयितारौ । भवत इति शेषः । र्नन्द्यादित्वात् त्युः ॥ X शोचयते- षष्ठी ॥ अमे॑ना॒ावुद॑तिष्ठप॑ गावौ श्रान्तसदा॑विव । कुर्कुरावि॑व॒ कूज॑न्तावुदव॑न्तो॒ वृकका॑विव ॥ २ ॥ । अ॒हम् । ए॒नौ । उत् । अ॒ष्ठिम् | गाव । श्रान्तसौऽइव । कुर्कुरौऽइ॑व । कूज॑न्तौ । उ॒ऽअव॑न्तौ । वृकऽइव ॥ २ ॥ अ- एनौ पूर्वमन्त्रोक्तौ श्यावौ ओष्ठौ प्राणापानौ वा शत्रुसंबन्धिनौ । दंशब्दस्य अन्वादेशे "द्वितीयाटौस्स्वेनः" इति एनादेश: अनुदात्त: । हं प्रयोक्ता उदतिष्ठिपम् उत्थापयामि उद्गमयामि । बलान्निःसारयामीत्य- र्थः । * तिष्ठतेर्ण्यन्तात् लुङि चङि “तिष्ठतेरित्” इति इत्त्वम् । लात्कारेण उत्थापने दृष्टान्तत्रयं गावावित्यादि । यथा श्रान्तसदौ श्री- तौ श्रमवन्तौ सीदन्तौ गोष्ठे श्रमेण निषीदन्तौ गावौ वालदण्डमूलनिं- तोदनादिना बलाद् उत्थापयन्ति । यथा च कूजन्तौ ध्वनिं कुर्वन्तौ कु- कुरौ श्वानौ पाषाणमहरणादिना बलाद् अपसारयन्ति । यथा च वृ- को । अरण्यश्वा वृक इत्युच्यते । उदवन्तौ गोयूथमध्ये वत्सान् उद्गृह्य गच्छन्तौ धावन्तौ वृकौ यथा गोपाला: बलाद् यूथाद् अपसारयन्ति तद्वत् । ओष्ठयोः प्राणापानयोर्वा द्वित्वाद् द्वित्वसंख्यावन्तौ गावौ श्वानो वृकौ दृष्टान्तत्वेन उपन्यस्तौ । अवतेर्धातो रक्षणाद्यनेकार्थस्मरणाद् अत्र गत्यर्थः अवतिः ॥ 66 66 सप्तमी ॥ आंतोदिनों नितोदिनावथो॑ संतोदिना॑वुत । १ K अतो. K अतो. R आतो. 1 S inserts यथा again before श्रान्तौ. S' 'दंडवलांमूलनि.