पृष्ठम्:अथर्ववेदसंहिता-भागः २.pdf/५२५

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अथर्वसंहिताभाष्ये तृतीया ॥ यज्ञं य॒ज्ञं ग॑च्छ य॒ज्ञप॑तिं गच्छ । स्वां योनिँ गच्छ॒ स्वाहा॑ ॥ ५ ॥ यज्ञं । य॒ज्ञम् । गच्छ॒ । य॒ज्ञऽप॑तिम् । गच्छ॒ ॥ स्वाम् | योनि॑म् | ग॒च्छ । स्वाहा॑ ॥ ५ ॥ ५१७ हे यज्ञ त्वं यज्ञम् यष्टव्यं परमात्मानं विष्णुं गच्छ येन त्वं प्रतिष्ठितो भवेः । अनन्तरं यज्ञपतिम् यज्ञस्य पालयितारं यजमानं गच्छ फलम- दानेन प्राप्नुहि । “पत्यावैश्वर्ये” इति पूर्वपदमकृतिस्वरत्वम् । " अ- नन्तरं स्वाम् आत्मीयां योनिं गच्छ । योनिः कारणम् सर्वजगत्कारण- भूता परमेश्वरी शक्ति: । तां प्राप्नुहि । स्वाहा स्वाहुतम् इदम् आज्यं तवास्त्विति ॥ चतुर्थी ॥ ए॒ष ते॑ य॒ज्ञो य॑ज्ञपते स॒हस्र॑क्तवाकः | सुवीर्यः स्वाहा॑ ॥ ६ ॥ ए॒षः । ते॒ । य॒ज्ञः । य॒ज्ञ॒ऽपत्ते॒ । स॒हऽसि॑क्तवाकः ॥ सु॒ऽवीये॑ः । स्वाहा॑ ॥ ६ ॥ हे यज्ञपते यजमान एष यज्ञः सहसूक्तवाकः । सूक्तं वक्तीति सूक्तवाक: यथाक्रमं यष्टव्यदेवतानामकीर्तनपरः प्रैषः । तत्सहित एष यज्ञः । अथ वा सूक्तवचनसहितः विविधस्तोत्रकः सुवीर्य: सुबल: शोभनपुत्रपौत्रादि- कर्मयुक्तो वा ते तव । श्रेयसे कल्पताम् इत्यर्थः । स्वाहा स्वाहुतम् इ- दम् आज्यम् अनयंस्तु ॥ पञ्चमी ॥ वष॑हु॒तेभ्यो॒ वष॒डहुतेभ्यः । दे॒वा॑ गातुविदो गा॒ानु॑ वि॒त्वा गा॒तुमि॑त॥७॥ वष॑ट् । हु॒तेभ्यः॑ । वर्षट् । अर्हुतेभ्य: ॥ देवा॑ । गा॒तु॒ऽवि॒दुः । गा॒तुम् । वि॒त्वा । गा॒तुम् । इत ॥ ७ ॥ हुतेभ्यः इष्टेभ्यो देवेभ्यः वषट् | प्रदानवाची वषट् शब्दः । इदम् आ- ज्यं हुतम् अस्तु । अहुतेभ्य: पूर्वम् अनिष्टेभ्यो देवेभ्यो वषट् इदम् आ- ज्यं वषट् हुनम् अस्तु । अस्य संस्थितहोमत्वात् पूर्व हवि:प्रदानेन प्रीणि-