पृष्ठम्:अथर्ववेदसंहिता-भागः २.pdf/५२६

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

[अ० ९. सु०१०२.] ४१७ सप्तमं काण्डम् । ५१९ ता अपि देवा हूयन्ते किल किम उत पूर्वम् अहुता देवा इत्युभयत्र वषट्कारप्रयोगः । “नमः स्वस्तिस्वाहा स्वधालंवषड्योगाच्च” इति हु- ताहुतशब्दाभ्यां चतुर्थी । हे गातुविद: गातुर्मार्गस्तं जानाना हे देवा: यूयम् । ४९. “विभाषितं विशेषवचने बहुवचनम्” इति पूर्व- स्यामन्त्रितस्य अविद्यमानत्वनिषेधाद् द्वितीयस्य निघातः । गातुम् मार्ग वित्त्वा लब्ध्वा अस्मदीयं यज्ञं प्रति आगमनकाले येन मार्गेण आगतास्तमेव मार्ग लब्ध्वा गातुम् इत समाप्ते कर्मणि पुनः स्वकीयगृ हगमनाय तमेव मार्ग तेनैव मार्गेण प्रतिनिवर्तध्वम् । विवेति । विदेर्लाभार्थात त्वामत्यये “ एकाच : ०” इति इतिषेधः । ज्ञानार्थात तु निषेधाभावाद् इड्डवत्येव । तस्मादेव वा “अनित्यम् आगमशासनम् इति इडभावः । गातुं वित्त्वा विदित्वा ज्ञात्वेति तत्रार्थः । इतेति । इए गतौ । लोटि मध्यमबहुवचने अदादित्वात् शपो लुक् ॥ "> षष्ठी ॥ मन॑स॒स्पत इ॒मं नो॑ दि॒वि दे॒वेषु॑ य॒ज्ञम् । स्वाहा॑ दि॒वि स्वाहा॑ पृथि॒व्यां स्वाहा॒न्तरि॑ते॒ स्वाहा॒ वाते॑ धा॒ स्वाहा॑ ॥ ८ ॥ मन॑सः । पते॒ । इ॒मम् । नः॒ । दि॒वि । दे॒वेषु॑ । य॒ज्ञम् । स्वाहा॑ । दि॒वि । स्वाहा॑ । पृथि॒व्याम् । स्वाहा॑ । अ॒न्तरि॑क्षे । स्वाहा॑ । वने॑ धाम् । स्वाहा॑ ॥ ८॥ व। हे मनसस्पते सर्वभूतानाम् अन्तरात्मतया मनसोपि पत्ते हे दे- ४“ सुबामन्त्रिते पराङ्गवत् स्वरे” इति मनस इति शब्दस्य आमन्त्रितानुप्रवेशाद् मनसस्थत इति षष्ठ्यामन्त्रितसमुदायस्य “आमन्त्रि- तस्य च” इति षाष्ठिकम् आद्युदात्तत्वम् । नः अस्मदीयम् इमं यज्ञं दिवि धुलोके वर्तमानेषु देवेषु अन्यादिषु धाम् । ॐ पुरुषव्य- त्ययः । धाः धेहि स्थापय । इति स्वाहा सरस्वती । अब्रवीद् इत्यर्थः । मन्त्रमध्यवर्तिनां स्वाहाशब्दानां प्रदानार्थत्वाभावात् । वस्तुतश्च 1 $' तमार्ग तवैव मार्गता. 25' समुदायपष्टया.