पृष्ठम्:अथर्ववेदसंहिता-भागः २.pdf/५२७

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

५२० अथर्वसंहिताभाष्ये o स्वाहाशब्दस्य वाकर्तृकवचनरूपेर्थे निरुतत्वात् । स्वा स्वकीया प्रजापति- संबन्धिनी वाग् आह अब्रवीत् इति स्वाहाशब्दस्य अर्थ उक्तः । तथा च तैत्तिरीयके वाक्प्रजापत्योरुक्तिप्रत्युक्तिरूपं वाक्यम् एवं श्रूयते । “तं वाग् 'अभ्यवदज्जुहुधीति | क॑स्त्वम् इत्यब्रवीत् । स्वैव ते वाग् इत्यब्रवीत् । सो- "जुहोत् स्वाहेति । तत् स्वाहाकारस्य जन्म” इति [तै॰ ब्रा० २.१.२.३] । एवम् उत्तरे त्रयः स्वाहाशब्दा व्याख्येयाः । अनन्तरं छुपृथिव्यन्तरिक्षलो- केषु अस्मदीयं यज्ञं धाः स्थापयेति सरस्वत्याहेति । ततः इमम् अस्मदीयं यज्ञं वाते सर्वकर्माधारे धाः स्थापय | यस्माद् अयं यज्ञः प्रयुक्तः तत्रैव वाते स्थापय । “वाताद् अध्वर्युर्यज्ञं प्रयुङ्गे” इति श्रुतेः [ तै० ब्रा० ३.३. ९. १२ ] । “मनसस्पतिना देवेन वाताद् यज्ञः प्रयुज्यताम्” इति च [तै ० ब्रा॰ ३. ७. ४.१]। स्वाहा इदम् आज्यं स्वाहुतम् अस्तु इति अन्तिमस्वा- हाशब्दस्य प्रदानार्थता । दिवीति । 'ऊडिदम इति सप्तम्या उदात्तत्वम् । पृथिव्याम् इति । “उदात्तयणो हल्पूर्वात्” इति विभक्तेरु- दात्तत्वम् । धाम् इति । दधातेर्लेटि “बहुलं छन्दसि' इति शपो लुक् । 'तिङां तिङो भवन्ति" इति सिपो मिबादेशः । पः परस्मैपदेषु ” इति इकारलोपः ॐ ॥ " 66 "" ८८ 66 इतञ्च लो- ,, सप्तमी ॥ 66 सं ब॒र्हिर॒क्तं ह॒विषा॑ घृ॒तेन॒ समि॑न्द्रेण॒ वसु॑ना॒ सं म॒रुद्भः । देवैर्विश्वदेवेभिरक्तमिन्द्रं गच्छतु ह॒विः स्वाहा॑ ॥ १ ॥ सम् । ब॒र्हिः । अ॒क्तम् । ह॒विषा॑ । घृ॒तेन॑ । सम् । इन्द्र॑ण । वसु॑ना । सम् । मरुत्ऽभिः । सम् । दे॒वैः । वि॒श्वऽदे॑वेभिः । अ॒क्तम् । इन्द्र॑म् । । ग॒च्छतु । ह॒विः । स्वाहा॑ ॥ १ ॥ बर्हिः स्रुगाद्यासादनस्थानभूतं हविषा पुरोडाशादिना घृतेन आज्येन च समतम् सम्यग् अभ्यतम् अभूत् । ४ अश्रू व्यक्तिमुक्षणादिषु । कर्मणि निष्ठा | तथा वसुना वासकेन वस्त्राख्यदेवसहितेन वा इन्द्रे- 1 So S'. सांब्रवीत् कस्वमसीति is the reading of the vaidikas. 2 S' यशं. स्थाताद्यशं for वाताद् यशः. 3 S'