पृष्ठम्:अथर्ववेदसंहिता-भागः २.pdf/५३५

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

५२४ अथर्वसंहिताभाष्ये तत॑ः । पा॒हि॒ि । त्वम् । नः । म॒ऽचेतः । शुभे । सखऽभ्यः । अ॒मृत॒ऽत्वम् । अस्तु । नः ॥ १ हे अग्ने वयम् अस्मृति स्मरणरहितं पूर्वोत्तरकर्मानुसंधानरहितं यत् किंचित् कर्म चकूम अकार्ष्म । सांतत्येन क्रियमाणे कर्मणि मध्ये यत् किंचित् कर्म अनुष्ठेयं विस्मृतवन्तः अन्योक्तं वा संदेशादिकं तदीयाय ज- नाय न कथितवन्तो वा । तथा हे जातवेदः जातानां वेदितः जातैः भूतैर्ज्ञायमान या चरणे अनुष्ठाने उपारिम यत् कर्म उपार्ते लुप्तम् अका- । यत्कर्मानुष्ठाने मूढा अभूमेत्यर्थः । चकृमेति । करोतेलिंटि 66 " ऋादिनियमात् इण्निषेधः । उपारिमेति । उपपूर्वाद् अर्ते: 'इडत्यति- व्ययतीनाम्" इति इडागम: । यद्वृत्तयोगाद् अनिघाते तिङि चोदात- वृति " इति गतेर्निधातः ४ । हे प्रचेतः प्रकृष्टज्ञान अग्ने त्वं ततः तस्माद् विस्मरणनिबन्धनात् पापात् नः अस्मान पाहि पालय । ततः सखिभ्यः समानख्यानेभ्यः प्रियभूतेभ्यो नः अस्मभ्यं वदनुग्रहात शुभे शो- भने साङ्गे कर्मणि । संपन्ने इति शेषः । अमृतत्वम् अविनाशित्वम् अस्तु ॥ पञ्चमी ॥ अव॑ दि॒वस्ता॑रयन्ति स॒प्त सूर्य॑स्य र॒श्मय॑ः । आप॑ समु॒द्रिया॒ा धारा॒स्तास्ते॑ श॒ल्यम॑सिस्रसन् ॥ १ ॥ अव॑ । दि॒वः । त॒रय॑न्ति॒ । स॒प्त । सूर्य॑स्य । र॒श्मय॑ः । आप॑ः । स॒मु॒द्रियः । धारा॑ः । ताः । ते॒ । श॒ल्यम् । अ॒स॒िस्रस॒न् ॥ १॥ 66 एकस्य हि सूर्यस्य अंशभूताः सप्त सूर्या विद्यन्ते । तत्र प्रधानभूतः कश्यपसंज्ञकः सर्वदा महामेरौ वर्तते । इतरे तदंशभुता आरोगादिना- मानो विश्वस्य प्रकाशकाः प्रवर्षकाश्च भवन्ति । श्रूयते हि तैत्तिरीयके । आरोगो भ्राज: पटर: पतङ्गः स्वर्णरो ज्योतिषीमान् विभासः । ते अस्मै सर्वे दिवम् आतपन्ति' इति । “कश्यपोष्टमः । स महामेरुं न जहाति ” इति । यस्मिन् सूर्या अर्पिताः सप्त साकम्” इति च [तै॰ आ०१.७.१] ॥ तथा चास्या ऋचः अयम् अर्थः । सूर्यस्य कश्य- 99 " 66