पृष्ठम्:अथर्ववेदसंहिता-भागः २.pdf/५३८

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

[अ० १०. सू०११४.]४२९ सप्तमं काण्डम् । ५३१ हयोका सहायेन सजोषाः समानप्रीतिः सन् प्रतीच: स्वप्नंजागरणाद्यव- स्थापनान् अस्मान् उपक्षपयितुं प्रतिमुरम् आगच्छतस्तान् शत्रून निर्दह निःशेषेण भस्मसात् कुरु | जाठराग्निः अन्तर्दहतु त्वं तु बहिदेहेत्यर्थः ॥ अष्टमी | इ॒दमु॒ग्राय॑ ब॒भ्रवे॒ नमो॒ यो अ॒क्षेषु॑ तनूव॒शी । घृ॒तेन॒ कलं शिक्षामि॒ि स नो॑नो॒ मृडाती॒दृशे॑ ॥ १ ॥ इ॒दम् । उ॒ग्ग्राय॑ । ब॒भ्रवे॑ । नम॑ः । यः । अ॒क्षेषु॑ । त॒नू॒ऽव॒शी । घृ॒तेन॑ । कल॑म् । शि॒क्षामि॒ । सः । नः । मृडाति॒ । ई॒दृशे॑ ॥ १ ॥ नमः स्वः उग्राय उहूर्णवलाय बभ्रुवे बभ्रुवर्णाय एतत्संज्ञकाय द्यूतजयकारिणे दे- वाय इदं नमः नमस्करणम् । भवतु इति शेषः । स्ति" इति नमःशब्दयोगे बभ्रुव इति चतुर्थी छ । यो बभ्रुः अक्षे- षु देवनसाधनेषु तनूवशी यथाकामी । स्वेच्छाधीनजय इत्यर्थः । घृतेन आज्येन मन्त्राभिमन्त्रितेन कलिम् । पराजयहेतुः पञ्चसंख्यायुक्तोक्षविषयोऽ- यः कलिरित्युच्यते । तं शिक्षामि ताडयामि । हन्मीत्यर्थः । एकादयः प- ऋसंख्यान्ता अक्षविषया अयाः । तत्र पञ्चानां कलिरिति संज्ञा । तथा च तैत्तिरीयकम् । “ये वै चत्वारः स्तोमाः कृतं तत् । अथ ये पञ्च कलिः सः” इति [तै°ब्रा० १ ५.११.१] । तत्र कलिशब्दवाच्यस्य अ- यस्य आगमने पराजयो भवति । तम् अनेन आज्येन विनाशयामि । अहम् अन्यैर्न पराजीये किं तु अन्यान् अहमेव जयामीत्यर्थः । क्षतिर्विद्योपादानवाची । तच्च विद्याग्रहणम् अध्यापककर्तृककशाताडनं वि- ना न भवतीति अत्र लक्षणया ताडनमात्रं विवक्ष्यते । व्यत्ययेन परस्मै- पदम् । यद्वा । शके: सनि प्रत्यये 'सनि मीमा०” इति इस् आदेशः । 'अत्र लोप: ०" इति अभ्यासलोपः । कलिं शि- क्षामि शक्तं समर्थ कर्तुम इच्छामि । यथा कलि स्वयं पराजयसमर्थः पराजयवान् भवति तथा करोमीत्यर्थ: । अस्मिन्न ये देवतानुग्रहम् आ- शि- 66 66 1S' शिक्षयामि, 2S' ययं for स्वयं.