पृष्ठम्:अथर्ववेदसंहिता-भागः २.pdf/५३९

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

५३२ अथर्वसंहिताभाष्ये शास्ते । स नमस्कृत: अक्षद्यूनदेवता बभ्रु: ईदृशे देवननिबन्धने कलि- पराभावनरूपे जयलक्षणे च फले नः अस्मान् मृळांति मृडयतु सुख- यतु ।

  • मृड सुखने । लेटि आडागमः ४ ॥

नवमी ॥ घृ॒तम॑प्स॒राभ्यो॑ वह॒ त्वम॑ग्ने पांसू॑न॒क्षेभ्यः॒ सिक॑ता अ॒पश्च॑ । य॒थाभागं ह॒व्यदा॑तिं जुषा॒ाणा मद॑न्ति दे॒वा उ॒भया॑नि ह॒व्या ॥ २ ॥ घृ॒तम् । अ॒प्स॒राभ्यः॑ । ब॒ह॒ । त्वम् । अ॒ग्ने॒ । प॒सू॑न् । अ॒क्षेभ्य॑ः । सिक॑ताः । अपः । च । 1 य॑था॒ाऽभा॒गम् । ह॒व्यऽदा॑तिम् । जुषा॒णाः । मद॑न्ति । दे॒वाः । उ॒भया॑नि । ह॒व्यां ॥ २ ॥ हे अग्ने वम् अप्सराभ्यः । अप्सु सरन्त्यश्चरन्त्यः अन्तरिक्षचारिण्यो वा | ताभ्यः तदर्थं घृतम् अक्षाभ्यञ्जनसाधनम् आज्यं वह प्रापय । अ- स्माकं जयार्थम् इति शेषः । तथा अक्षेभ्यः | अक्षशब्देन तैर्दीव्यन्तः प्रतिकितवा उच्यन्ते । अक्षहस्तेभ्यः प्रतिकितवेभ्य: पांसून सूक्ष्मान भूर- जःकणान् सिकताः शर्करा: अपः उदकानि च प्रापय । यथा तेषां पराजयो भवति तथा तन्मुखेषु पांस्वादीन प्रक्षिपेत्यर्थः ॥ किं च यथा- भागम् भागम् अनतिक्रम्य स्वीयस्वीयभागानुसारेण हव्यदातिम् हविषः प्रदानं जुषाणा: सेवमाना देवाः इन्द्राद्या उभयानि द्विप्रकाराणि औ- षधपाशुकभेदेन सोमाज्यभेदेन श्रौतस्मार्तकर्मभेदेन वा द्विविधानि हव्या हव्यानि हवींषि । आस्वाद्येति शेषः । मदन्ति माद्यन्ति तृप्ता भवन्ति । ते देवा अपि अस्माकं द्यूतजयं कुर्वन्तु इति प्रार्थना ॥ दशमी ॥ अप्सरर्स: सधमादै मदन्ति ह॒विर्धान॑मन्तरा सूर्य॑ च । ता मे हस्तौ सं सृ॑जन्तु॒ घृ॒तेन॑ स॒पलं मे कितवं र॑न्धयन्तु ॥ ३ ॥ BDSC १ ३ P हव्यो. . FPJ पांशुन्. We with A KRV JCP. २RP È J मद॑तु.