पृष्ठम्:अथर्ववेदसंहिता-भागः २.pdf/५४५

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

५३६ अथर्वसंहिताभाष्ये आवरकाणि शत्रुरूपाणि दुरितानि अमति अप्रतिपक्षम् । निःशेषम् इत्यर्थः । हथंः हिंस्थः । & हन्तेर्वर्तमाने लटि मध्यमद्विवचने रू- पम । हि यस्माद् उभा उभौ· अग्नीन्द्रो वृत्रहन्तमा वृत्रहन्तमौ अतिशयेन वृत्रं हतवन्तौ । “ब्रह्मभ्रूणवृत्रेषु० " इति किप् । तद्- न्ताद् आतिशायनिकस्तमप् । “नाद् घस्य” इति नुडागम: ४ ॥ षष्ठी ॥ याभ्या॒मज॑य॒न्त्स्व॑ती॒रग्न॑ ए॒व यावा॑त॒स्थतुर्भुव॑नानि॒ विश्वा॑ । प्रच॑र्षणी वृष॑णा वज्र॑बाहू अ॒ग्निमिन्द्र॑ वृत्र॒हणा॑ हुवे॒हम् ॥ २ ॥ याभ्या॑म् । अज॑यन् । स्व॒ । अग्रे॑ । ए॒व । यौ । आ॒ऽत॒स्यनु॑ः । भुव॑नानि । विश्वा॑ । मच॑र्षणी॒ इति॒ प्रऽच॑र्षणी । वृष॑णा | वज्र॑वाहू इति॒ वच॑ऽवाहू । अ॒ग्निम् । इ- न्द्र॑म । वृ॒त्र॒ऽहना॑ । हु॒वे । अ॒हम् ॥ २ ॥ अग्रे पूर्व याभ्याम अग्नीन्द्राभ्यामेव स्वः स्वर्गम् अजयन् स्वाधीनीकृ- नवन्तो देवाः । यौ च अग्नीन्द्रौ विश्वा विश्वानि भुवनानि भवन्ति भू- तजातानि आतस्पतुः स्वमहिम्ना आक्रान्तवन्तौ व्याप्तवन्तौ । यौ च प्र- चर्षणी प्रकर्षेण द्रष्टारौ । स्वोपासकसंबन्धिकर्मफलस्येति शेषः । यद्वा चर्षणय इति मनुष्यनाम | प्रकृष्टाश्चर्षणयो मनुष्या ययोर्यष्टृत्वेन सन्तीति तो । वृषणा वृषणौ वर्पितारौ अभिमतफलस्य । वज्रबाहू । वज्रो वा- ह्वोर्ययोरिति व्यधिकरणबहुव्रीहिः । वज्रः वर्जकम् आयुधम् । आयुधपा- णी अत एव वृत्रहणा वृत्रहणौ वृत्रं हतवन्तौ । तादृशम् अग्निम् इन्द्रं च अहं जयकाम: हुवे आह्वयामि ॥ सप्तमी ॥ उप॑ त्वा दे॒वो अ॑ग्रभीञ्चम॒सेन॒ बृह॒स्पति॑ः । इन्द्र॑ गीर्भिर्न आ वि॑श॒ यज॑मानाय सुन्व॒ते ॥ ३ ॥ १ A B३ for १. Rhis no kama. We with BDKKSVCs.