पृष्ठम्:अथर्ववेदसंहिता-भागः २.pdf/५४६

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

[अ० १०. सू० ११६.] ४३१ सप्तमं काण्डम् । ५३९ उप॑ । त्वा॒ । दे॒वः । अ॒ग्रभीत् । च॒म॒सेन॑ । बृह॒स्पति॑ । इन्द्र॑ । ग॒ऽभि । नः॒ । आ । वि॒श॒ । यज॑मानाय । सुन्व॒ते ॥ ३ ॥ हे इन्द्र वा त्वां बृहस्पतिः बृहतां महतां देवानां पतिः हिताचरणे- न पालयिता एतन्नामा देवः चमसेन | चमन्ति अदन्ति अत्र सोमम् इ- ति चमसः सोमपात्रम् | तेन उपाग्रभीत उपगृहीतवान् । अन्यत्र य- था न गच्छसि तथा स्वाधीनं कृतवान् इत्यर्थः । ग्रहेर्लुङ् । “हृग्रहोर्भः” । अतो बृहस्पतिपरिग्रहात हे इन्द्र सुन्वते सोमम अ- भिषुण्वते यजमानाय | “क्रियार्थोपपदस्य” इति चतुर्थी । जमानं धनादिना पोषयितुं नः प्रयोक्तृणाम् अस्माकं गीर्भिः स्तुतिभिः आ विश । स्तूयमान आगच्छेत्यर्थः ॥ य- अष्टमी | इन्द्र॑स्य॒ कुक्षिर॑सि सोम॒धान॑ आ॒त्मा दे॒वाना॑मु॒त मानु॑षाणाम् । इ॒ह प्र॒जा ज॑नय॒ यास्त॑ आ॒सु या अ॒न्यत्रे॒ह तस्तै रमन्ताम् ॥ १ ॥ इन्द्र॑स्य । कुक्षिः । अ॒सि॒ि । सो॒म॒ऽधान॑ । आ॒त्मा । दे॒वाना॑म् । उ॒त । मा- नु॑षाणाम् । । इ॒ह । प्र॒ऽजाः । ज॒नय॒ । याः । ते । आसु । याः । अन्यत्र । इ॒ह । ताः । ते । रमन्ताम् ॥ १॥ अत्र अतिसृज्यमानो वृषभ: पूतभृत्पात्रं वा संबोध्यते । हे वृषभ हे पूतभृत्कलश वा त्वं सोमधानः । सोमो धीयते निधीयतेत्रेति सोमधा- नः । अधिकरणे युट् । सोमाधारभूतः इन्द्रस्य कुक्षिः ज- ठरम् असि । तथा । उतशब्द: चार्थे । देवानां मानुषाणां च आत्मा शरीरम् असि । किं च इह लोके प्रजाः पुत्रादिका जनय उत्पादय । आसु पुरोवर्तिनीषु गोषु यजमानादिरूपासु वा विक्षु ते त्वदर्थ या वि- द्यन्ते अन्यत्र अन्यस्मिन् देशे या गावो यजमानादिरूण वा प्रजा वि द्यन्ते ताः प्रजा इह अस्मिन् लोके ते त्वदर्थ रम. नाम सुखेन विहर- १ P आशु. We with PJCr.