पृष्ठम्:अथर्ववेदसंहिता-भागः २.pdf/५४७

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

५४० अथर्वसंहिताभाष्ये न्तु । यद्वा इह आसु गोषु प्रजासु वा प्रजाः जनय यास्वदर्थम् आसु बभूवुः । तथा अन्यत्र च या भवन्ति ता इह अस्मिन् प्रदेशे त्वदर्थ रमन्ताम् । आसु । “ऊडिदम्" इति विभक्तेरुदात्तत्वम् । य- द्वा। अस्तेलिटि प्रथमपुरुषबहुवचने उसि अन्त्यलोपश्छान्दसः । भूभा- वो व्यत्ययेन न प्रवर्तते । यद्वृत्तयोगाद् अनिघाते प्रत्ययस्वरेण अन्तोदा- तत्वम् । अस गतिदीयादानेषु । अस्माद् वा लिट् । सुबन्तपक्षे ति- उन्तपक्षे च स्वरः समानः ॥ नवमी ॥ शु॒म्भ॑नी॒ द्यावा॑पृथि॒वी अन्तिसुम्ने॒ महि॑ते । आपः सप्त सुस्रुर्देवीस्ता नो॑ मुञ्चन्त्वंह॑सः ॥ १ ॥ शुम्भ॑नी॒ी इति । द्यावा॑पृथि॒वी इति । अति॑सुम्ने॒ इत्यन्तऽसुम्ने । महि॑व्रते॒ इति महिऽव्रते । आप॑ । स॒प्त । सु॒स्रुवुः । दे॒वीः । ताः । नः । मुञ्चन्तु । अंह॑सः ॥ १ ॥ स- शुम्भनी शुम्भन्यौ । शुभ शुम्भ शोभार्थे । अस्मात् ल्युट् | वस्य शोभाकारिण्यौ । द्यावापृथिव्योर्मध्ये विश्वस्यावस्थानात् । अन्तैःस्व- ने । स्वपन्तीति स्वप्ना: अज्ञानावृता जनाः । “ स्वपो नन्” इ- ति नन् प्रत्ययः कर्तरि व्यत्ययेन भवति । स्वप्ना: अचेतनाश्वेत- नाश्च ययोरन्तः मध्ये वर्तन्ते तादृश्यौ महिवते महद् व्रतं कर्म ययोस्ते द्यावापृथिवी द्यावापृथिव्यौ । वर्तेते इति शेषः । तथा सप्न सर्पणस्व- भावाः सप्तसंख्याका वा देवी: देव्यः द्योतमाना आपः सुस्रुवुः स्रव न्ति । स्रु गतौ । ता: द्यावापृथिव्यौ आपश्च अंहसः पा- पाद् नः अस्मान् मुञ्चन्तु मोचयन्तु पृथक् कुर्वन्तु ॥ दशमी || मुञ्चन्तु॑ मा शप॒थ्या॒दथो॑ वरु॒ण्यदुत । " . १ KKV म॑स्रुवुर्देवी". 1S' wrongly आसुः •