पृष्ठम्:अथर्ववेदसंहिता-भागः २.pdf/५५०

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

[अ० १०. सू० ११६.]४३३ सप्तमं काण्डम् । ५४३ उक्तं वैताने । “तीर्थदेशे राजानम् अन्यं वा मर्माणि 'त इति संन- डम्" इति [ वै० ६.४] ॥ तत्र प्रथमा ॥ तृष्टिके तृष्ट॑वन्दन उद॒मूं द्विन्धि तृष्टिके । यथा॑ कृ॒तद्वि॒ष्टासो॒मुष्मै॑ श॒प्या॑व॑ते ॥ १ ॥ तृष्टि॑िके । तृष्ट॑ऽवन्दने । उत् । अमूम् । छिंन्धि | तृष्टिके । यथा॑ । कृ॒तऽवि॑ष्टा । अस॑ः । अ॒मुष्मै॑ । शेप्या॑ऽव॑ते ॥ १ ॥ । हे तृष्टिके | कुत्सिता तृष्टा तृष्टिका | **" 'कुत्सिते' इति क प्रत्ययः । जितृष पिपासायाम् इत्यस्मात् तृष्टशब्दः । अतिपिपास- या अन्तः शरीरे दाहो जन्यते । अत्र जन्ये जनकशब्दः । अतः तृट- शब्दस्य दाहजनकत्वमात्रमेव अत्रार्थो विवक्षितः । हे कुत्सिते दाहजनि- के हे बाणांपर्ण्याख्यौषधे हे तृष्टवन्दने । वन्दना नाम लतानां वृक्षाणां चोपरि प्ररूढास्तदीयशाखाम आवेष्टमाना विभिन्नपर्णलताविशेषाः । तृ- टा: दाहजनिका वन्दना लताविशेषा यस्याः सा ओषधिः स्वयमपि दा- हजनिका दाहकलतोपेता च । एतादृशि अतिरुक्षे ओषधे त्वम अमूं स्त्रियम उच्छिन्धि उद्गृह्य विभिन्नां कुरु । भोक्त: पुरुषाद् बलात्कारेण पृथक्कुर्वित्यर्थः । उच्छेदनप्रकारमेवाह । हे तृष्टिके कोपजनिके हे ओ- षधे शेप्यावते । शेप इति पुंस्प्रजननस्य नाम । तत्र भवं शेष्यं वीर्य तहते प्रजननसामर्थ्यवते संभोगक्षमाय अमुष्मै पुरुषाय यथा कृतद्विष्टा कृतं संपादितं द्विष्टं द्वेषणं क्रोधो यया द्वेषकारिणी यथा येन प्रकारेण असः भवेः । 23 अस्तेर्केटि अडागमः ॐ । योषिदोषध्योः अभे- दविवक्षया भवेरिति मध्यमपुरुषप्रयोगः । यद्वा । X अस इति । तिप स्थाने व्यत्ययेन सिप्ः । यथा असौ योषित • पुरुषाय द्विष्टा भवेत् तथा अम्म् उच्छिन्धीति ॥ "" १ K K V शेय्या॰. We with ABBDRŚPPJCh. २P वृ॑धि॒. We with PJCr. ३ शेष्या. We with PJ Cr. 1S' तीर्व' for तीर्थ° 2S' बाणप●●