पृष्ठम्:अथर्ववेदसंहिता-भागः २.pdf/५५१

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

५४४ अथर्वसंहिताभाष्ये द्वितीया || तृष्टासि तृष्टिका विषा विषाक्यसि । परि॑वृक्ता॒ यथास॑स्पृष॒भस्य॑ व॒शेव॑ ॥ २ ॥ तृ॒ष्टा । अ॒सि॒ । तृ॒ष्टका । वि॒िषा । विषात्त॒की । अ॒सि । परि॑िऽवृक्ता | यथा॑ । अस॑सि । ऋषभस्य॑ । व॒शाऽईव ॥ २ ॥ हे ओषधे तृष्टिका कुत्सिता दाहजनिका त्वं तृष्टा दाहजनकस्वभावा असि भवसि । तृतीयपादगतो यथाशब्द: अत्रापि अनुषज्यते । यथा तृष्टासि | यथा च विषा विषस्वरूपा त्वं विषातकी । तक कृ- च्छूजीवने । विषम् आतङ्कयति संयोजयतीति विषातकी | विषस्य संयोजयित्री असि । यथा च परिवृक्ता सर्वैः परिवर्जिता अससि भव- सि । स्प्रष्टुम् अयोग्यासि । चरमः पादो दृष्टान्तः । ऋषभस्य पुंगवस्य वशेव यथा वशा वन्ध्या गौ: पुंगवस्य परिवर्जनीया भवति एवम् इयं योषिदपि भोगयोग्या च न भवेत् ॥ यद्वा एकं विशेषणम् ओषधिपरतया द्वितीयं योषित्परतया व्याख्येयम् । यथा ओषधे त्वं तृष्टासि एवम इयं योषित तृष्टिका पुरुषस्य क्रोधरूपदाहजनिका भवेत् । यथा च ओषधे त्वं विषाक्यसि एवम् इयं योषित विषा पुरुषस्य विषरूपिणी स्यात् । यथा विषम् अभोज्यम् एवम् इयम् इति विषेत्युक्तम् । यथा च ओषधे त्वं परिवृता सर्वैः प्राणिभिः परिवर्जिता अससि भवसि एवम् इयं यो- षित स्वपुरुषस्य परिवृक्ता संभोगेन त्यक्ता भवेत् । तत्र दृष्टान्तः । ऋ- षभस्य वशेवेति । यथा पुंगवस्य वन्ध्या गौर्भोग्या न भवति एवम् इयं पुरुषस्य भोग्या न स्याद् इति ॥ तृतीया ॥ आते॑ देव॒क्षणा॑भ्य॒ आ ते॒हं हृद॑याद् ददे । आ ते॒ मुर्खस्य॒ संशात सर्वे ते वर्च आ द॑दे ॥ १ ॥ आ। ते॒ । द॒ते॒ । व॒क्षणा॑भ्यः । आ । ते । अ॒हम् । हृद॑यात् । दु॒दे॒ । आ । ते॒ । मुव॑स्य । सम॒ऽशात् । सर्व॑म् । ते॒ । वर्च॑ः । आ । द॒द्रो॒ ॥१॥