पृष्ठम्:अथर्ववेदसंहिता-भागः २.pdf/५५२

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

[अ० १०. सू. ३१९.] ४३४ सप्तमं काण्डम् | ५४५ हे नारि ते तव वक्षणाभ्यः । ऊरुसंधिर्वङ्गण इत्युच्यते । तेन स्त्रीप्र- जननं लक्ष्यते । स्त्रीलिङ्गत्वं योनिशब्दापेक्षया बहुवचनं तु अवयवबहुत्वा- पेक्षया । यह्वा । ४ वक्ष रोधे इति धातुः । रुध्यते पुरुषो यैरि- ति । वक्षणाः । व्यत्ययेन टाप्ॐ । कटिविकट्यूरुपादेभ्य इत्यर्थः । तेभ्योऽङ्गेभ्यः वर्चः सौभाग्यलक्षणं तेज: आ ददे स्वीकरोमि । अपह- रामीत्यर्थः । तथा हे नारि ते तव हृदयात् समीचीनपदार्थध्यायिनो धीरान्मनसः सकाशाद् वर्चः साधुपुरुषध्यानरूपं तेज: अहम् आ द- दे । नारीविषयदौर्भाग्यकामोहम् अपहरामीत्यर्थः । तथा ते तव सुखस्य विश्वाह्लादकस्य वदनस्य संकाशाद् वर्च: विश्वसंमोहनरूपं तेजः । आ इति उपसर्गश्रुतेदेदे इत्यनुषङ्गः । किं बहुना ते तव सर्वम् सर्वावयववर्ति वर्च: सौभाग्यलक्षणं तेज: आ ददे अपहरामि । * “आङो दोना 66 स्यविहरणे” इति आत्मनेपदम् ॥ अयं मन्त्रः प्रकरणात स्त्रीवि षयदौर्भाग्यकरणे विनियुज्यते ॥ चतुर्थी ॥ प्रेतो य॑न्तु॒ व्याध्य: मानु॒ध्या: प्रो अश॑स्तयः । अ॒ग्नी र॑श॒स्विनी॑ह॑न्तु॒ सोमो॑ ह॒न्तु॒ दुरस्य॒तीः ॥ २ ॥ म । इ॒तः । य॒न्तु । विऽआ॑ध्यः । प्र । अ॒नु॒ऽध्याः । मो इति॑ । अश॑स्तयः । अग्निः । रक्षस्विनी॑ः । हन्तु । सोम॑ः । हन्तु | दुरस्तीः ॥ २ ॥ । व्याध्य: आधयो मानस्य: पीडा: । विविधा मनोनिष्ठा: पीडा व्या- धयः रोगा वा । इतः अस्माद् रक्षोग्रहादिगृहीतात् पुरुषात् प्र यन्तु प्र गच्छन्तु । Z व्याङ्पूर्वाद् दधाते: कि । “संज्ञापूर्वको विधिरनित्यः” इति “जसि च” इति विहितस्य गुणस्याभावे यण् आदेश: ४ । द्वा विविधानि आध्यानानि दुश्चिन्तनानि प्रगच्छन्तु । य- व्याङ्पूर्वाद् ध्यायते; 66 'अन्येभ्योपि दृश्यते” इति किपि संप्रसारणे च यण् आदे- तथा अनुध्या: अनुध्यानानि रक्षोग्रहाादेविषयाणि अनुग- शः । १ Pom. the avagraha.