पृष्ठम्:अथर्ववेदसंहिता-भागः २.pdf/५५८

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

५५१ [अ°१०• सू’ १२३]४३६ सप्तमं काण्डम् । उरोर्वरीयो वसृणस्ते कृणोतु जयन्तं त्वानु देवा मंदन् ॥१॥ मर्माणि । ते । वर्मणा । छायामि । रोमैः । त्वा । राज । अमृतेन । अ नु । वस्ताम् । उरोः । वरीयः। वर्तणः। ते । कृणोतु । जयन्तम् । वा । अर्थं । देवाः । मदन्तु ॥ १ ॥ हे जयकाम राजन ते विदीयानि मर्माणि मर्मस्थानानि वर्मणा कवचे न छादयामेिं प्रयोक्ता अहं संवृणोमि । सोमो राजा त्वा त्वाम् अमृते न अविनाशिना तेजसा वा अनु वस्ताम मर्मच्छदनानन्तरम् आच्छाद यतु । ॐ वस आच्छादने । आदादिकः । अनुदते । लोटि ‘‘आम् एतः” इति आम् आदेशः ४ ॥ तथा उरोः बहोरपि वरीयः - रुतरं सुखं वरुणः शत्रुनिवारकः एतन्नामा देवः ते तुभ्यं कृणोतु करो तु । ॐ वरीय इति । उरुशब्दाद् ईयसुन् । ‘‘प्रियस्थिर’’ इत्यादि ना वर् आदेशः । । तथा देवः इन्द्राद्याः सर्वे जयन्तम् परसेनां त्रासयन्तं [त्वा] त्वाम् अनु मदन्तु अनुहृष्यन्तु । जहि भिन्धि इत्येवंवि धैर्वाक्यैः प्रोत्साहयन्तु इत्यर्थः । तृतीयं सूक्तम् । सप्तमकाण्डे दशमोनुवाकः । वेदार्थस्य प्रकाशेन तमो हार्द निवारयन्। पुमर्थाश्चतुरो देया विद्यातीर्थमहेश्वरः॥ श्रीमद्राजाधिराजराजपरमेश्वरश्रीवीरहरिहरमहाराजधुरंधरेण सायणार्येण विरचिते अथर्वसंहिताभाष्ये सप्तमकाण्डः समाप्तः ॥ A S' inserts इंद्राद्याः aftewy' त्वाम् again.