पृष्ठम्:अथर्ववेदसंहिता-भागः २.pdf/५६०

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अथर्वसंहिताभाष्ये तत्र प्रथमा ॥ अन्त॑काय मृ॒त्यवे॒ नम॑ः प्रा॒णा अ॑पा॒ना इ॒ह ते रमन्ताम् । इ॒हायम॑स्तु॒ पुरु॑षः स॒हासु॑ना॒ सूर्य॑स्य भागे अ॒मृत॑स्य लो॒के ॥ १ ॥ अन्त॑काय । मृ॒त्यवे॑ । नम॑ः । प्रा॒णाः । अ॒प॒नाः । इ॒ह । ते॒ । र॒म॒न्ताम् । इ॒ह । अ॒यम् । अ॒स्तु॒ । पुरु॑षः । स॒ह । असु॑ना । सूर्य॑स्य । भागे । अ॒मृत॑ - स्य । लोके ॥ १ ॥ ५५४ आयुष्कामस्य आयुर्वृद्धि: मृत्योरधीनेति तन्नमस्कार आदौ क्रियते । अन्तकाय अन्तं करोतीत्यन्तकस्तस्मै सर्वप्राणिनाशकत्रे मृत्यवे प्राणिवियो- जकाय एतन्नामकाय देवाय नमः नमस्कारः । अस्विति शेषः । हे आ- युप्काम माणवकादे ते तव प्राणा: । प्राणन्तीति प्राणा: बहिर्मुखसंचारिणो वायवः । अपानाः । अप अनन्तीत्यपाना: अवाङ्मुखसंचारिणः । ते च अन्तकानुग्रहाद् इह अस्मिन् शरीरे रमन्ताम् क्रीडन्तु | प्राणापहर्तुर्मृत्यो- नमस्कारेण प्रीतत्वात् तद्विषयभीतिम् अपहाय सुखेन संचरन्तु इत्यर्थः । प्राणापानयोर्व्यापारंवृत्तेर्बहुत्वाद् बहुवचनप्रयोगः । एवं प्राणापानयोरन- पगमम् आशास्य इदानीं तत्सहितस्य पुरुषस्य अनपगतिम् आशास्ते । अयं प्राणप्रच्युतिं शङ्कमान: पुरुष: असुना प्राणेन । वृत्तिबहुत्वानपेक्ष्यात् सामान्याभिप्रायेण एकवचनम् । तेन सह सर्वदा अविनाभूतः सन् इह भूलोक एवास्तु भवतु । इह अस्विति यद् उक्तं तद् विशिनष्टि । सू- र्यस्य आदित्यस्य भागे प्रदेशविशेषे भूलोके । सूर्यव्याप्तेर्विषयभूतास्त्रयो भागा: द्यौरन्तरिक्षं भूश्च । तत्र अपेक्षितवाद् इह भागशब्देन भूलो- कः परिगृह्यते । तम् एव विशिनष्टि । अमृतस्य लोके । अमृतशब्दे- नात्र पौत्रादिरूपेणाव॑स्थानम् अभिधीयते मनुष्यैराशास्यमानत्वात् । श्रूय- ते हि । “प्रजाम् अनु प्रजायसें तदु ते मर्त्यामृतम्" इति [तै ब्रा० १.५. ५. ६] । तथाविधस्य अमृतस्य लोके । लोक्यत इति लोकः स्था- नं भूलोक इत्युक्तं भवति ॥ 1S' परावृत्त 25 नपगतिम्. 3S' 'बहुत्वानपेक्षाःसामान्या. स्थानमभि° S' प्रजाय 4S' 'वस्थानाव-