पृष्ठम्:अथर्ववेदसंहिता-भागः २.pdf/५६१

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

[अ॰ १. सू" १.] ४३९ अष्टमं काण्डम् । द्वितीया ॥ उदे॑नं॒ भगो॑ अग्रदुदे॑नं॒ सोमो॑ अंशुमान् । उदैन॑ म॒रुतो॑ दे॒वा उदि॑न्द्रा॒ानी स्व॒स्तये॑ ॥ २ ॥ उत् । ए॒न॒म् । भग॑ः । अ॒ग्रभीत् । उत् । ए॒न॒म् । सोम॑ः । अंशु॒ऽमान् । उत् । ए॒न॒म् । म॒रुत॑ । दे॒वाः । उत् । इ॒न्द्रा॒ानी इति॑ । स्व॒स्तये॑ ॥ २ ॥ ५५५ तथा भगो नाम आदित्यमूर्तिविशेषः । 'अंशश्च भगच " [तै ० आ° १ . १३.३] इति अदितिपुत्राणां मध्ये श्रवणात् । सर्वप्राणिभिर्भजनीयो भगो देवः एनं मूर्च्छालक्षणे अन्धे तमसि प्रविशन्तं पुरुषम् उद् अग्रभीत् उद्धृतवान् । “हृग्रहोर्भश्छन्दसि” इति भवम् ॥ अंशुमान् अमृतमयैरंशुभिस्तद्वान् सोमो देवः । एनम् उत् । अग्रम इत्यनुषज्यते । एवं मरुतः एकोनपञ्चाशत्संख्याका देवा एनम् उत् । अ- ग्रभीपुरिति वचनविपरिणामेन अनुषङ्गः कर्तव्यः । एवम् इन्द्राग्नी इन्द्र- व अग्निश्च उभावपि मुख्यौ देवौ उदग्रहीष्टाम् । अत्र द्विवचनविपरि- णाम: । किमर्थम् उद्ग्रहणम् इति तत्राह । स्वस्तये । सु अस्तीति स्व- स्तिः । क्षेमायेत्यर्थः ॥ तृतीया ॥ इ॒ह तेसु॑रि॒ह प्रा॒ाण इ॒हायु॑रि॒ह ते॒ मन॑ः । उत् त्वा नित्या पार्शेभ्यो॒ दैव्या॑ वा॒ाचा भ॑रामसि ॥ ३ ॥ इ॒ह । ते॒ । असु॑ः । इ॒ह । प्रा॒णः । इ॒ह । आयु॑ः । इ॒ह । ते॒ मन॑ः । उत् । त्वा । निःऽर्ऋत्याः । पाशे॑भ्यः । दैव्या॑ । वाचा | भरामसि ॥ ३ ॥ । हे आयुरर्थयमान पुरुष ते असुः मुख्यः प्राणवक्षुरादि: इह शरीरे अस्तु । तथा ते प्राणः पञ्चवृत्त्यात्मको वायुरपि इह अस्तु । एवं ते आयुरपि इह अस्तु । तथा ते मनोपि इह अस्तु । एते सर्वेपि त्वां विहाय अन्यत्र मापसरन्तु । हे गतासो पुरुष वा त्वां निर्ऋत्याः ए- तन्नामिकाया: पापदेवतायाः पाशेभ्यः बन्धनरज्जुभ्यः सकाशाद् दैव्या दे-