पृष्ठम्:अथर्ववेदसंहिता-भागः २.pdf/५६३

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

[अ० १. सू१.] ४३९ अष्टमं काण्डम् | ५५७ सूर्य॑ः । ते॒ । त॒न्वे । शम् । त॒पाति॒ । त्वाम् । मृत्युः । यता॑म् । मा । म । मेष्ठाः ॥ ५ ॥ पुनः मरणाभावं सोपपत्तिकम् आशास्ते । हे मुमूर्षो पुरुष तुभ्यं त्व- द मातरिश्वा । माता अन्तरिक्षम् निर्मीयन्तेस्मिन् भूतानीति व्युत्प तेः । तस्मिन् श्वसितीति मातरिश्वा । तादृशो वातः वायुस्तव सुखाय पर्वताम् । ॐ पवतिर्गतिकर्मा । संचरतु । तथा आपश्च तुभ्यं त्वदर्थम् अमृतानि वर्षन्तु सिञ्चन्तु । तथा सूर्यो देवस्ते तव तन्वे शरी- राय शम सुखं यथा भवति तथा तपाति तपतु । तप संतापे । अस्मात् लेट् । 'लेटोडाटौ” इति आडागमः । एतत् सर्वे मृ- योरनुग्रहम् अन्तरेण न घटत इति तदनुग्रहम् आशास्ते । हे पुरुष त्वां मृत्युर्देवो दयताम् रक्षां करोतु । अतस्त्वं मा प्र मेष्ठाः मृतिं मा गाः । मीङ् हिंसायाम् । लुङि पूर्ववद् इमतिषेधः ॥ 66 षष्ठी ॥ उद्यानं॑ ते पुरुष नाव॒यानं॑ जी॒वातु॑ ते॒ दक्ष॑ताति॑ कृणोमि । आ हि रोह॒मम॒मृते॑ सुखं रथ॒मथ॒ जि॑िर्ववि॑िद॒थ॒मा व॑दासि ॥ ६ ॥ उ॒ऽयान॑म् । ते॒ । पुरु॒ष॒ । न । अव॒ऽयान॑म् । जी॒वातु॑म् । ते॒ । ददा॑ऽतातिम् । कृणामि । आ । हि । रोह॑ । इ॒मम् । अ॒मृत॑म् | सु॒ऽखम् । रथ॑म् । अथ॑ । जिवं॑ । वि॒दथ॑म् । आ । व॒द॒ासि॒ ॥ ६ ॥ हे पुरुष ते तव उधानम् उद्गमनमेव । मृत्युपाशाद् इति शेषः । अवयानम् अवाग्गमनं नैवास्ति । तत् कथम् एतत् संपत्स्यत इति त चाह । ते तव जीवानुम् जीवनौषधं कृणोमि करोमि । केवलं जीवन- मेव न किं तु दक्षतातिम् । * स्वार्थिकस्तातिः । दक्षं बलं च कृणोमि । त्वं च आ रोह अधितिष्ठ इमम् अमृतम् अमरणधर्मकं सुखम् इन्द्रियेभ्योनुकूलं रथम् यानम् । देहो वा रथत्वेन उपचर्यते । १ So we with all our authorities. See Rw.