पृष्ठम्:अथर्ववेदसंहिता-भागः २.pdf/५७१

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

[अ॰ १. सॄ० १.] ४३९ अष्टमं काण्डम् । ५६५ बन्धिनी मा विदत् । किमर्थम् एवं प्रार्थ्यत इति चेत् तंत्राह । कथा केन प्रकारेण त्वं प्रमयु: प्रगतहिंसः प्रगतहिंसको वा स्याः भवेः । ए- वमर्थ जम्भादि मा विददित्यर्थः ॥ षष्ठी ॥ आदित्या: अदितेः पुत्रा देवा धात्रादयः त्वा त्वाम् उद्धरन्तु ऊर्ध्व हरन्तु मृत्योर्मुखात् । तथा वैसवः अष्टसंख्याको धरादयः उद्भरन्तु । इन्द्रामी । इन्द्रश्च अग्निश्च देवौ उद्भरताम् । किमर्थम् । स्वस्तये क्षे माय । तथा द्यौः देवता लाम उद्भरतु पृथिवी च उद्भरतु । के बहुना । प्रजापतिः सर्वेषां देवानां पिता उदग्रभीत उग्रहणम् अकार्षी। उद्गृह्णातु । सोमराज्ञीः सोमस्य पत्न्यः ओषधयो देव्यो मृत्योः सकाशात् त्वाम् उदपीपरन् अपालयन् ॥ सप्तमी ॥ अयं देवा इहैवास्वयं मामु॒त्र॑ गादि॒तः । इ॒मं स॒हस्र॑वीर्येण मृत्योरुत् पा॑रयामसि ॥ १४ ॥ अ॒यम् । दे॒वाः । इ॒ह । ए॒व । अस्तु । अयम् । मा । अ॒मुत्रे । गा॒त्। इतः । इ॒मम् । स॒हस्र॑ऽवीर्येण । मृत्योः । उत् । पारयामसि॒ ॥ १४ ॥ हे देवा: आदित्याद्या अयं पुरुष: इहैव भूलोके अस्तु भवतु । एत- देव व्यतिरेकमुखेनाह । अयम् इतः अस्माद् भूलोकाद् अमुत्र स्वर्गे मा गात् । वयं रक्षाकर्तारः इमं पुरुषं सहस्रवीर्येण अपरिमितसामर्थ्येन र क्षाविधानेन मृत्योः सकाशाद् उत्पारयामसि उत्पारयामः ॥ अष्टमी ॥ उत् त्वा॑ मृत्योरपोरं सं ध॑मन्तु वयो॒धसः॑ । १ ý गात्. We with P JCr. So all our vaidikas and MSS. (the pada autho- rities परम् ). But it is probaible अपीपरं was at first miswritten for अर्पीपरन्, the anusvira often standing for नू in Atharva MSS.; and that the pada-writers aristook the anusvára of the sainhita for the nsal product of a म् and accordingly replaced the latter in the pada-text. 1S' प्रमत. 2S' भवेत्. BS' स्तवोमसंख्याका. 4S/for देवता.