पृष्ठम्:अथर्ववेदसंहिता-भागः २.pdf/५७३

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अष्टमं काण्डम् | दशमी ॥ व्य॒वात् ते॒ ज्योति॑रभूदप॒ त्वत्त अक्रमीत् । अप॒ त्वन्मृत्युं निरृति॒मप॒ यक्ष्मं नि द॑ध्मसि ॥ २१ ॥ (२) वि । अ॒वा॒ात् । ते॒ । ज्योति॑ः । अ॒भूत् । अप॑ । त्वत् । तम॑ । अ॒क्रमीत् । अप॑ । त्वत् । मृत्युम् । निःऽॠतिम् । अप॑ । यक्ष्म॑म् । नि । द्ध्म॒॥२१॥ ( २ ) [अ० १. सू० २.] ४४० ५६७ हे विसंज्ञ पुरुष ते व्यवात व्यौच्छत तमोविवासनम् अभूत् । अत एव ज्योति: संज्ञानम् अभूत् । तथा [ त्वत् ] लत्तः सकाशात् तमः कृ . त्स्नम् अपाक्रमीत् अपक्रान्तम् अभूत् । कुतो हेतोरिति तत्राह । वत् त्वत्त मृत्युम् प्राणापहर्त्री देवतां निरृटिम पापदेवताम् अप । निद- ध्मसीति उत्तरक्रियानुषङ्गः । तथा यक्ष्मम् बाह्यम् आभ्यन्तरं च रोगन अपं नि दध्मसि अपनिदध्मः त्वत्तः प्रच्यावयामः ॥ इत्यष्टमकाण्डे प्रथमेनुवाके द्वितीयं सूक्तम् ॥ >> प्रक्रम्य “ आ रभस्व” इति सूक्तत्रयम् अर्थसूक्तम् । तेन उपनयनकर्मणि माणवकस्य नाभि संस्पृश्य आचार्यो जपं कुर्यात् । " उपनयनं' सूत्रितम् । “दक्षिणेन पाणिना नाभिदेशे संस्तभ्यं जपति अन्तकाय मृ त्यवे [४.१.] आ रभस्त्र ” [७.३] इति [ कौ॰ ७.६] ॥ ८८ 66 तथा आयुष्काम: 'आ रभस्व" इति सूक्तत्रयेण शरीरम् अभिमन्त्रयेत ॥ तथा ऋषिहस्तेन आयुष्कामस्य शरीरम् अनेनाभिमन्त्रयेत ॥ सूत्रितं हि । “आ रभस्व [. ] प्राणाय नमः [११.४] विषास- हिम [१७.१] इत्यभिमन्यते " इति [ कौ० ७.९] ॥ तथा अस्यार्थसूक्तस्य आयुष्यगणे पाठाद् "विश्वकर्मभिरायुष्यैः स्वस्य- यनैराज्यं जुहुयात् ” । कौ० १४.३] इत्यादिषु विनियोगो द्रष्टव्यः || " i तथा नामकरण ये कर्मणि अनेनार्थसूक्तेन कुमारस्य हस्ते अविच्छि- नाम उदकधारां निनयेत् ॥ तथा तस्मिन्नेव कर्मणि अनेनार्थसूक्तेन देवदारुमणि संपात्य अभिमन्य 1S' अपि for अप. 2S' 'देशसंस्तभ्य. We with Amsih.. B S' अव".