पृष्ठम्:अथर्ववेदसंहिता-भागः २.pdf/५७४

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

५६८ अथर्वसंहिताभाष्ये केन । " बीयात् । तस्यैव मणि निघृष्य पायनं च कुर्यात् । तद् उक्तं कौशि- 'अथ नामकरणम् आ रभस्वेमाम् इत्यविच्छिन्नाम उदकधाराम आलंम्भयति । पूतिदारुं बभाति । पाययति ” इति [कौ॰७.९] ॥ अन्त्येष्टौ “आ रभस्व" इति त्रिभिः प्रेताग्निम आदीपयेत् ॥ त्रिंशन्महाशान्तितन्त्रभूतायां महाशान्तौ " आ रभस्व” इत्येतज्जपेत् । उक्तं नक्षत्रकल्पे || पुनस्तदेव जप्यं तु शंतातीयम् अथावतः । अन्तकाया रभस्वेति [ न० क॰ २३ ] ॥ तथा " वैश्वदेवीं गतायुषाम्” इति [ न० क०१७] विहितायां महा- शान्तौ देवदारुमणिबन्धनम् अनेन कुर्यात् । तद् उक्तं नक्षत्रकल्पे । “ आ रभस्वेति पूर्तिदारुं वैश्वदेव्याम्' इति [ न० क० १९] ॥ तत्र आ रभस्वेति प्रथमसूक्ते प्रथमा ॥ "" आ र॑भस्वे॒माम॒मृत॑स्य॒ श्रु॒ष्टमच्छिद्यमाना जरद॑ष्ठिरस्तु ते । असु॑ त॒ आयुः पुन॒रा भ॑रामि॒ रज॒स्तो मोप॑ गा मा प्र मे॑ष्ठाः ॥ १ ॥ आ । र॒भस्व॒ । इ॒माम् । अ॒मृत॑स्य । नुष्टि॑िम् | अच्छद्यमाना । ज॒रऽ- ष्टिः । अस्तु । ते । असु॑म् । ते॒ । आयु॑ः । पुन॑ः । आ । भरामि॒ । रज॑ः । तम॑ः । मो । उप॑ । गाः । मा । प्र । मेष्ठाः ॥ १ ॥ हे आयुष्काम पुरुष इमाम अस्माभिः क्रियमाणाम् अमृतस्य अम- रणत्वस्य श्रुष्टिम् प्रस्तुतिम् आ रभस्व उपक्रमस्व । अनुभवितुम् इति शेषः । यद्वा कुमारस्य हस्ते अविच्छिन्नाम उदकधारां निनयेदिति वि नियोगाद् अमृतशब्देन उदकम् उच्यते । तस्य श्रुष्टिंम् | उदकधाराम् इत्यर्थः । अच्छिंद्यमाना परैर्विच्छेतुम् अनर्हा जरदष्टि: जरावस्यापर्यन्तम् १ So all our vaidikas and MSS. exeet R which reads स्रु. २PPJ मा. 1 S' अथानामकरण. 2 S' आलिंपयति. We with Kausika. #So S' The Vit- ishutra-lka/ft: पूतु' 4S' स्रुष्टिम् 5 inserts एषा अमृतस्त्रुष्टिम् before अच्छिद्य.