पृष्ठम्:अथर्ववेदसंहिता-भागः २.pdf/५७५

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

[ अ० १. सू०२.] ४४० अष्टमं काण्डम् । ५६९ अष्टिः अशनं जरदष्टिः । सा ते अस्तु भवतेस्तु । तदर्थ ते तब अ- सुम प्राणं मृत्युना अपहृतम् आयुश्च पुनः आ भरामि आहरामि । त्वं च रजः रागम् अस्माकं सत्त्वगुणप्रतिबन्धकं मोप गाः मा प्राप्नु- हि । हु इण् गतौ । " इणो गा लुङि” इति गादेशः । एवं तमः आवरकं हिताहितविवेकप्रतिरोधकं तमआख्यगुणं मोप गाः । न केवलं रजस्तमसोरमाप्तिरेव प्रार्थ्यते किं तु मृतिनिवारणमपि मा म मेष्ठा इति । हिंसां च मा प्राप्नुहि । मीङ् हिंसायाम् । लुङि रूपम् ॥ द्वितीया ॥ जीवतां ज्योति॑र॒भ्येहा॒र्वाङा वो हरामि शतशा॑रदाय । अवमुञ्चन् मृत्युप॒ाशानश॑स्ति द्राय॒ आयु॑ः मत॒रं ते॑ दधामि ॥ २ ॥ जीव॑ताम् । ज्योति॑ः । अ॒भि॒ऽएहि॑ । अ॒र्वाङ् । आ । वा । ह्ररामि । शुं- Asशरदाय । अव॒ऽमुञ्चन् । मृत्युऽप॒शान् । अश॑स्तिम् । द्राधी॑यः । आयु॑ः । प्र॒ऽत॒रम् । ते । धा॒ामि॒ ॥ २ ॥ हे पुरुष त्वं जीवताम् मनुष्याणां ज्योतिः दीप्निं ज्ञानम् अर्वाङ् अ- स्मदभिमुखः अभ्येहि अभ्यागच्छ । अहं तु त्वा त्वाम आ हरामि । मृ- त्यसकाशाद् इति शेषः । किमर्थम् । शतशारदाय । शतसंख्याकशरदव- धिकम् आयु: शतशारदम् । शतायुषे । चिरकालजीवनायेत्यर्थः । मृत्यु - पाशबद्धस्य कथम् आगमनम् इति तत्राह । मृत्युपाशान् मृत्योः ज्वर- शिरोरोगादिनानाविधान् पाशान् अवमुञ्चन् उत्सृजन् । तथा अशस्तिम् निन्दाम् अवमुञ्चन् । सा हि कोश इव आच्छादयति । एतत् सर्वे स त्यायुषि संभवतीत्याशङ्का | द्राघीयः अतिदीर्घ शतसंवत्सरलक्षणम् आ- छु“ प्रियस्थिर” इत्यादिना दीर्घशब्दस्य द्राधादेश: ४ । [ ते ] त्वदर्थं प्रतरम् प्रकृष्टतरं दधामि स्थापयामि ॥ युः । २ ABÈR °र॒भ्ये॑ह्य॒°, Cs °मभ्ये ह्य°. We with DKK SV 1S' रागः. 2S' आख्यागुणं. 3S' हिंसा. ७२